पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५५९
बालमनोरमा ।

कारिष्यत: । करिष्यद्भक्ति । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमा सामानाधिकरण्येऽपि कचित् । करिष्यतीति करिष्यन् ।

३१०८ । पूङ्यजोः शानन् । (३-२-१२८)

वतमान । पवमानः । यजमानः ।

३१०९ । ताच्छील्यवयोवचनशक्तिषु चानश । (३-२-१२९)

एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं विभ्राण । शत्रु निघ्रान

३११० । इड्धायः शत्रकृच्छूिणि । (३-२-१३०)

आभ्यां शतृ स्याद्कृच्छूिणि कर्तरि । अधीयन् । धारयन् । “अकृच्छिणि किम् । कृच्छेण अधीते धारयति ।

३१११ । द्विषोऽमित्रे । (३-२-१३१)

३११२ । सुओो यज्ञसंयोगे । (३-२-१३२)

सर्वे सुन्वन्तः, सर्वे यजमानाः, सत्रिणः ।


शयिष्यमाणा भोक्ष्यन्ते यवना इति लक्षणे उदाहार्यम् । हेतावुदाहरति । अर्जयिष्यन्वस तीति ॥ प्रथमासामानाधिकरण्येऽपि कचिदिति ॥ प्रथमासामानाधिकरण्येऽपि कवि दित्यर्थः । कदाचिदित्यपि द्रष्टव्यम् । इदञ्च “लट् शेषे च' इति भविष्यदधिकारविहिते लट्येव प्रवतते इति “अनवक्लप्यमर्ष” इत्यत्र भाष्ये स्पष्टम् । पूङ्यजोः शानन्॥ पञ्चम्यर्थे षष्ठी । वर्तमाने इति ॥ शेषपूरणमिदम् । 'वर्तमान लट्’ इत्यतस्तदनुवृत्तरिति भावः । लड्ग्रहणन्तु निवृत्तम् । ततश्च ण्वुलादिवत्स्वतन्त्रोऽयम्, नतु शत्रादिवछादेशः । तथा च कर्तर्येवायम्, नतु भावकर्मणोः । नच लादेशत्वाभावे सोमम्पवमान इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यम् । ‘न लोक' इति सूत्रे ‘तृन्’ इति प्रत्याहार इत्युक्तत्वात् । ताच्छील्य ॥ चानाशि चशावितौ । भोगं भुञ्जान इति ॥ भोगशील इत्यर्थः । कवचम्बिभ्राण इति ॥ यौवनबलादिति भावः । शत्रुन्निज्ञान इति ॥ निहन्तु शक्त इत्यर्थः । अतः परत्वाभावान्न मुक् । वानश. लादेशत्वा भावात् अनात्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्ति' । इङ्धायः ॥ शतृ अकृच्छिणीति छेदः । अकृच्छूम्, अदुःखम्, तदस्यास्तीति अकृच्छूी। इड्, धारि, अनयोः द्वन्द्वात् पञ्चम्यर्थे षष्ठी । अधीयन्निति ॥ सुखमध्येतेत्यर्थः । धारयन्निति ॥ सुखेन धारयितेत्यर्थ । द्विषोऽमित्रे ॥ द्विषश्शतृप्रत्ययः स्यात् । अमित्रे कर्तरीत्यर्थः । सुञ्जो यज्ञ ॥ यज्ञसयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः । सयोगग्रहण यज्ञस्वामिपरिग्रहार्थम् । तेन याजकेषु न भवति । तत्र सुन्वन्नित्येकवचनान्त दर्शपूर्णमासज्यातिष्टोमादिविषयम्, एककर्तृकत्वात् । बहुवचनान्तन्तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह । सर्वे सुन्वन्त इति ॥