सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५८
[कृद्न्त
सिध्दान्तकौमुदीसहिता

३१०३ । लक्षणहेत्वोः क्रियायाः । (३-२-१२६)

क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं । “कृत्यचः (सू २८३५) । प्रपीयमाणः सोम ।

३१०४ । ईदासः । (७-२-८३)

आसः परस्यानस्य ईत्स्यात् । 'आदेः परस्य’ (सू ४४) आसीनः ।

३१०५ । विदेः शतुर्वसुः । (७-१-३६)

वेतेः परस्य शतुर्वसुरादेशो वा स्यात् । विद्वान् । विदन् । विदुषी ।

३१०६ । तौ सत् । (३-२-१२७)

तौ शतृशानचौ सत्संज्ञौ स्तः ।

३१०७ । लटः सद्वा । (३-३-१४)

व्यवास्थतावभाषयम् । तन्नाप्रथमास्सामानाधकरण्य प्रत्ययान्तरपद्याः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं


मिदम् । लक्षणहेत्वोः ॥ लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणम्, ज्ञापकम् । तदाह । क्रियायाः परिचायके इति ॥ धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् । कतैव प्रत्ययार्थः । शयाना भुञ्जते यवना इति । अत्र भोजनकालीन शयन भोक्तुर्यवनत्वसूचकम् । हेतावुदाहरति । अर्जयन्वसतीति ॥ अर्जनाय वसतीत्यर्थ । हेतावुदाहरणान्तरमाह । हरिं पश्यन्निति ॥ हरिदर्शनेन ससारदु खान्मुच्यते इत्यर्थः । ननु धनाद्यार्जनस्य वाससाध्य तया कथ तस्य वासहेतुत्व इत्यत आह । हेतुः फलं कारणञ्चेति ॥ इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्यापि वासहेतुत्वमिति भाव । प्रपीयमाण इति ॥ अत्र भिन्नपदस्थत्वात् कथ णत्वमित्यत आह । कृत्यच इति ॥ ईदासः ॥ आस इति पञ्चमी । आनस्येति ॥ 'आने मुक्’ इत्यतस्तदनुवृत्तरिति भावः । विदेः शतुर्वसुः ॥ वेत्तेरिति ॥ विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम् । शतु परस्मैपदत्वात् विद्यतेर्विन्तेश्चात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी, तथापि तस्य न ग्रहणम् । ‘निरनुबन्धकग्रहणे न सानुबन्धकस्य’ इत्युक्ते रिति भावः । वा स्यादिति । ‘तुह्यास्तातड्’ इत्यतस्तदनुवृत्तरिति भाव । विदुषीति ॥ उगि त्वान्डीप्, वसोस्सम्प्रसारण, पूर्वरूपम्, षत्वम् । तौ सत् ॥ ‘लटश्शतृशानचौ' इति सूत्रोपात्तौ शतृशानचौ तच्छब्दः परामृशति । तदाह । तौ शतृशानचाविति ॥ लष्टः सद्वा ॥ लटश्शतृ शानचौ वा स्त इत्यर्थः । व्यवस्थिति ॥ व्याख्यानादिति भाव. । नित्यमिति ॥ तेन तिङान्निवृति । अप्रथमासामानाधिकरण्ये उदाहरति । करिष्यन्तमिति । प्रत्यय परत उदाहरति । करिष्यतोऽपत्यं कारिष्यत इति ॥ उत्तरपदे उदाहरति । करिष्यद्भक्ति रिति ॥ करिष्यन्ती भक्तिरिति कर्मधारयः । सम्बोधने उदाहरति । हे करिष्यन्निति ॥