सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५५७
बालमनोरमा ।


३०९९ । विभाषा गमहनविदुविशाम् । (७-२-६८)

एभ्यो वसोरिड्रा । जग्मिवान्-जगन्वान् । जन्निवान्-जघन्वान् । विविदिवान्–विविद्वान् । विविशिवान्-विविश्वान् । विशिना साहचर्याद्विन्दते ग्रेहणम् । वेत्तेस्तु विविद्वान् । “नेडूशि कृति' (सू २९८१) इतीण्निषधः । 'द्वशेश्च' (वा ४४५२) । ददृशिवान्-दद्दश्वान् ।

३१०० । लटः शतृशानचावप्रथमासमानाधिकरणे । (३-२-१२४)

अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ।

३१०१ । आने मुक् । (७-२-८२)

अदन्तस्याङ्गस्य मुगागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनु वर्तमाने पुनर्लङ्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि कचित् । सन्ब्राह्मणः । *माङ-याक्रोशे इति वाच्यम्' (वा २१०९) । *मा जीवन्यः परावज्ञादु:खदग्धोऽपि जीवति' । *माङि लुङ्’ (सू २२१९) इति प्राझे एतद्वचनसामथ्यलट

३१०२ । सम्बोधने च । (३-२-१२५)


कानचियजादित्वात्सम्प्रसारण, पूर्वरूप, सवर्णदीर्घः। विभाषा गम ॥ ‘विभाषा गमहन' इत्यादि स्पष्टम् । लटः शतृशानचौ ॥ ‘वर्तमान लट्’ इति पूर्वसूत्रविहितस्यैव एतौ शतृशानचैौ । अनन्तरस्येति न्यायादति ‘वर्तमानसामीप्य' इत्यादिभाष्ये स्पष्टम् । शतृप्रत्यये शकारऋकारा वितौ । पचन्तमिनि ॥ पाकानुकूलव्यापाराश्रयमित्यर्थः *क्रियाप्रधानमाख्यातम्, सत्व प्रधानानि नामानि ' इति सिद्धान्तात् । शतशित्वेन सार्वधातुकत्वात् ३शाप “अतो गुणे' इति पररूपम् । शानाच शचावितौ । आाने मुक् ॥ ‘अङ्गस्य इत्यधिकृतम् । “अतो येयः’ इति पूर्वसूत्रादनुवृत्तेन षष्ठया विपरिणतेन अता विशष्यते । तदन्तविधि । तदाह । अदन्तस्येति ॥ मुकि ककार इत्, उकार उच्चारणार्थ, विकत्वादन्तावयवः । अनुवर्तमाने इति ॥ “वर्तमाने लट्’ इति पूर्वसूत्रादनुवृत्तम्य लडित्यस्य षष्ठया विपरिणामेन उक्तार्थलाभे सतीत्यर्थः । अधि केति ॥ सूत्राक्षरानारूढस्यापि अर्थस्य लाभार्थमित्यर्थ । सन् ब्राह्मण इति ॥ “अस भुवि' शतृप्रत्यये शपेो लुक् । श्रसोरोपः । माडीति ॥ माड प्रयुज्यमान आक्राश गम्य लटश्शतृशानचाविति वक्तव्यमित्यर्थः । मा जीवन्निति ॥ न जीवत्ययम् अनुपकारित्वात् । मृतप्राय इत्यर्थः। मापचमान इत्यप्युदाहार्यम्। ‘लट३शतृशानचा ' इत्येव सिद्धेः किमर्थमिदमित्यत आह । माङि लुङिन्तीति ॥ सम्बोधने च ॥ लटइशतृशानचाविति शेषः । प्रथमा समानाधिकरणार्थ आरम्भः । पूर्वसूत्रस्थपुनलङ्कहणस्य अधिकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थ