क्षियो निष्ठायां दीघों वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षिता
३०८२ । निनदीभ्यां स्रातेः कौशले । (८-३-८९)
आभ्यां रुन्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः शास्त्रेषु । नद्यां स्रातीति नदीष्णः । “सुपि-' (सू २९१६) इति क ।
३०८३ । सूत्रं प्रतिष्णातम् । (८-३-९०)
प्रतेः स्न्नातेः षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्रातम् ।
३०८४ । कांपष्ठलो गात्र । (८-३-९१)
कपिष्ठलो नाम यस्य कापिष्टलिः पुखः । ‘गोत्रे' किम् । कपीनां स्थलं कपिस्थलम् ।
३०८५ । विकुशमिपरिभ्यः स्थलम् । (८-३-९६)
एभ्यः स्थलस्य सस्य षः स्यात् । विष्टलम् । कुष्टलम् । शमिष्टलम् । परिष्टलम् ।
३०८६ । गत्यर्थाकर्मकश्लिषशीड्स्थासवसजनरुहजीर्यतिभ्यश्च । (३-४-७२)
एभ्यः कर्तरि क्तः स्याद्भावकर्मणोश्च । गङ्गां गत । गङ्गां प्राप्तः । म्लान: स: । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयित: । वैकुण्ठमधिष्ठित
ण्यदथे भावकर्मणी इत्युक्तम् । आक्रोशे उदाहरति । क्षीणायुभेवांते । 'गत्यर्थकर्मक इति कर्तरि क्तः । दैन्य उदाहरति । क्षीणोऽयं तपस्वीति । कृश इत्यर्थ । निनदीभ्याम् ।। सस्य षः स्यादिति ।। “सहस्साडस्सः' इत्यतः स इत षष्ठयन्तमनुवर्तते, “ अपदान्तस्य मूर्धन्यः’ इत्यप्यधिकृतमिति भाव । निष्णात इति । कुशल इत्यर्थः । नदीष्ण इति ॥ नद्याडुशल स्नातीति विग्रहः । सुपीति क इति । “सुपि स्थ.’ इत्यत्र सुपीति योगावभागातू क इत्यर्थः । गल्यर्थ । गत्यर्थ, अकर्मक, श्लिष, शीड्, स्था, आस, वस, जन, रुह, जीर्यति एषान्दशानान्द्वन्द्वः । ‘ल. कर्मणि च भावे च' इत्यतः भावे कर्मणीति ‘आदिकर्मणि क्तः कर्तरि च इत्यतः कर्तरि इति चानुवर्तते । तदाह । एभ्य इत्यादिना । कर्तरीयेवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः । गङ्गाङ्गत इति । कर्तरि क्तः । गङ्गाम्प्राप्त इति । “आप्ल व्याप्तौ' उपसर्गवशाद्भतौ वर्तते । अकर्मकादुदाहरति । म्लान इति । क्षीण इत्यर्थः । सयोगादः’ इति निष्ठानत्वम् । आश्लिष्ट इति । आलिङ्गितवानित्यर्थः । ननु अकर्मकत्वादेव सिद्धे शीडादीना पुनहणं व्यर्थमित्यत आह । शेषमधिशयित इति । शेषे शयितवा नित्यर्थः । “अधिशीड्स्थासाम्' इति शेषः कर्म । अतो नाकर्मकत्वादिह प्राप्तिरिति भावः । वैकुण्ठमधिष्ठित इति । वैकुण्ठे स्थितवानित्यर्थः । ‘अधिशीड्स्थासाम्’ इति वैकुण्ठः कर्म ।