सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५५१
बालमनोरमा ।

३०७९ । दुस्ति । (६-३-१२४)

इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । 'खरि च' (सू १२१) इति चत्र्वमाश्रयात्सिद्धम् । नीत्तम् । सूत्तम् । 'घुमास्था (सू २४६२) इतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । “जनसन- (सू २५०४) इत्यात्त्वम् । जातम् । सातम् । खातम् ।

३०८० । अदो जग्धिल्यैति किति । (२-४-३६)

ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्याल्यपि तादौ किति च । इकार उचारणार्थः । धत्वम् । 'झरो झरि–' (सू ७१) जग्धः । 'आदि कर्मणि क्तः कर्तरि च' (सू ३०५३) । प्रकृतः कटं स । प्रकृतः कटस्तन्न निष्ठायामण्यदर्थे' (सू ३०१४) इति दीर्घः । 'क्षियो दीघात्' (सू ३०१५) इति नत्वम् । प्रक्षीणः सः ।

३०८१ । वाऽक्रोशदैन्ययोः । (६-४-६१)


ददादेशेोऽपि कदाचिलभ्यते इत्यर्थ । अत एव प्रकृतसूत्रभाष्ये 'अचव उपसर्गात्तः’ इत्यस्यावकाशः प्रत्तमवत्तम् इति सङ्गच्छते इति भावः । दििस्त । 'इकः काशे' इत्यत” इक इति ‘उपसर्गस्य घञ्जयमनुष्ये' इत्यतः उपसर्गस्येति * ठूलेोपे' इत्यतो दीर्घ इति चानुवर्तते । उत्तरपद इत्याधि कृत तीत्यनेन विशेष्यते । तदादिविधिः । द इति षष्ठी ति इत्यत्रान्वेति । तथाच दाधातोरादेश यस्तकारः तदादै उत्तरपदे इति लभ्यते । तदाह । इगन्तेत्यादि । ननु नि दा त इति स्थिते “अच उपसर्गात्तः' इति दकारादाकारस्य तकारे दकारस्य “खरि च' इति चत्वें प्रकृत सूत्रेण उपसर्गस्य दीर्घ नीत्तामिति रूप वक्ष्यति । तदयुक्तम् । दीर्घ कर्तव्य चत्र्वस्यासिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाभावादित्यत आह । खरि चेति चत्र्वमाश्रयात् सिद्धमिति ॥ दादेशतकारमाश्रित्य विधीयमाने दीर्घ चत्वं नासिद्धम् । चत्वारसद्ध तकारमाश्रित्य विधिबला दल्यथ सूत्तमिति चिन्त्यम् । गतिश्च' इति सूत्रभाष्यवार्तिकयोस्सुदत्तमिल्य उपसर्गात्तः' इति तत्वे कर्तव्ये सोरुपसर्गत्वन्नेतेि प्रपश्चितत्वात् । अथ धड्गापाधातुभ्य. त्क्त आह । घुमास्थेति । धीतमिति ॥ ‘दधातेर्हिः' इत्यत्र इलुविकरणग्रहणान्न हिभावः । अदो जाग्धिः । धत्वमिति । जग्धु त इति स्थिते “झषस्तथोः' इति तकारख्य धकार इत्यर्थ । झरो झरि इति । अनेन पाक्षिको धकारलेोप इत्यर्थः । आदिकर्मणि क्त इति । व्याख्यात प्राक् । उदाहरणान्तरविवक्षया पुनरुपन्यासः । प्रकृतः कटं स इति । कर्तुमारब्धवानित्यर्थः। कटस्य कर्मण अनाभिहितत्वात् द्वितीया । कर्तुरभिहितत्वात् तच्छब्दात्प्रथमा । चकाराद्रावे कर्मणि चेत्युक्तम् । तत्र कर्मण्युदाहरति । प्रकृतः कटस्तेनेति । प्रक्षीणस्स इति । आदिकर्मणि क्तः । आदिकर्मणीति वा । वाऽक्रोशदैन्ययोः ॥ अण्यदर्थ इत्यनुवर्तते ।