पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५०
[कृद्न्त
सिध्दान्तकौमुदीसहिता


३०७७ । दो दुद्धेोः । (७-४-४६)

घुसंज्ञकस्य 'दा' इत्यस्य 'दथु' स्यात्तादौ किति । चत्र्वम् । दत्त घोः' किम् । दात: । तान्तो वायमादेशः । न चैवं विद्त्तमित्यादावुपसर्गस्य 'दस्ति' (सू ३०७९) इति दीर्घपत्तिः । तकारादौ तद्विधानात् । दान्तो वा । धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे 'झषस्तथोः-' (सू २२८०) इति धत्वं शङ्क-यम् । सन्निपातपरिभाषाविरोधात् ।

३०७८ । अच उपसर्गतः । (७-४-४७)

अजन्तादुपसर्गात्परस्य “ दा' इत्यस्य घोरचस्तः स्यात्तादौ किति । चत्वम् । प्रत 'अवदत्तं विद्त्तश्च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तश्च निदत्तमिति चेष्यते ॥” [इति भाष्यम्]


इत्यतस्तदनुवृत्तेरिति भावः । दो दद्धो ।। द इति षष्ठयन्तम् । तदाह । दा इत्यस्येति । दथ् इति च्छेदः । तदाह । दथ् स्यादिति । तवर्गद्वितीयान्तोऽयमादेशः । तादौ कितीति । ति कितीत्यनुवृत्तेरिति भाव. । चत्वमिति । “खरि च' इति थकारस्य तकार इत्यथ । दात इति ।। दाप्दैपो रूपम् । अदाप् इत्युक्ते’ घुत्वाभावान्न दद्रावः । तान्तो वेति ॥ तवर्गप्रथमान्त इत्यर्थः । नन्वेव सति विदत्तमित्यादौ दस्तीत्युपसर्गस्य दीर्घत्वाप त्तिः । तत्र हि द इति षष्ठी सप्तम्यर्थे । इगन्तोपसर्गख्य दीर्घः स्यात् तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्कय निराकरोति । न चैवमिति । आदेशस्य तवर्गप्रथमान्तत्वे सतीत्यर्थ । तकारा दाविति ॥ 'दस्ति' इत्यत्र द इति षष्ठी तीत्यत्रान्वेति । तथाच इगन्तोपसर्गस्य दीर्घः स्यात् दकारादेशतकारादावुत्तरपदे इत्यर्थः । उत्तरपदाधिकारात् । ततश्च उत्तरपदस्यात्र तकारादित्वा भावात् न दीर्घ इति भावः । दान्तो वा धान्तो वेति ॥ तवर्गतृतीयान्तो वा चतुर्थान्तो वा अयमादेश इत्यर्थः । न चेति ॥ दान्तत्व निष्ठानत्वम्, धात्वन्त “झषस्तथो ' इति धत्वञ्च न शङ्कयमित्यन्वयः । सन्निपातेति ॥ दान्तादेशस्य धान्तादेशस्य च तकारादि प्रत्ययेोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वामम्भवादिति भावः । अच उपसर्गा त्तः ॥ । अच इत्यावर्तते, एकमुपसर्गविशेषणम् । द्वितीयन्तु त इत्यत्राकार उच्चारणाथ स्थानिसमर्पकम् । तदाह । अजन्तादिति ॥ घोरिति ॥ घोरवयवस्येत्यर्थः । ततः स्या दिति ॥ तकारः स्यादित्यर्थः । ददादेशापवादः । चत्वैमिति ॥ प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चत्वेन तकार इत्यर्थः । अवदत्तं विदत्तञ्चेति । भाष्य स्थश्लोकोऽयम् । अत्र आदिकर्मणीयेतत् प्रदत्तमित्यत्रैव सम्बध्यत । नायम् ‘अञ्च उपसर्गात्तः इत्यस्य अपवाद इति भ्रमितव्यमित्याह । चशब्दाद्यथाप्राप्तमिति । तथा चावदत्तादिशब्देषु