पुरं दारयतीति पुरन्दरः । सर्वसहः । सहिग्रहणमसंज्ञार्थम् । * भगे च दारेः’ (वा २०१३) इति काशिका । बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ।
२९५९ । सर्वकूलाभ्रकरीषेषु कषः । (३-२-४२)
सर्वेङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीषङ्कषा वात्या ।
२९६० । मेघर्तिभयेषु कृञ्जः । (३-२-४३)
मेघङ्करः । ऋतिङ्करः । भयङ्करः । भयशब्देन तदन्तविधिः अभयङ्कर ।
२९६१ । क्षेमप्रियमद्रेऽण् च । (३-२-४४)
एषु कृञ्जोऽण्स्यात् । चात्खच् । क्षेमङ्करः-क्षेमकारः । प्रियङ्करः-प्रिय कारः । मद्रङ्करः-मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि * अल्पारम्भः क्षेमकरः' इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ।
२९६२ । आशिते भुवः करणभावयोः । (३-२-४५)
आशितशब्द उपपदे भवतेः खच आशितो भवत्यनेनाशितम्भव ओदनः । आशितस्य भवनमाशितम्भवः ।
२९६३ । संज्ञायां भृतवृजिधारिसहितपिद्मः । (३-२-४६)
यथासङ्खयमन्वयः । दारीति ण्यन्तस्य प्रहणम् । पुरन्दर इति ॥ पुर दारयतीति विग्रहे दारेः खवि णिलोपे 'खचि हृस्व.' इत्युपधाहस्व सुपो लुकि “वाचयमपुरन्दरौ च' इति निपातनादमन्तत्वम् । ननु ‘सज्ञायां भूतृवृजिधारिसहितपिदमः' इलेयव सिद्धं सहधातोरिह प्रहण व्यर्थमित्यत आह । असंज्ञार्थमिति ॥ भगे चेति ॥ इत्यादि स्पष्टम् । ऋतिङ्कर इति ॥ ऋतिर्गमनम् । अभयङ्करशब्द साधयितुमाह । भयशब्देन तदन्ताविधिरिति ॥ इदश्च “येन विधि' इत्यत्र भाष्ये स्पष्टम् । क्षेमप्रिय ॥ ननु “क्षेमप्रियमद्रे वा' इति खचो विकल्पविधौ खजभाव 'कर्मण्यण्’ इत्यस्य सिद्धत्वादण्प्रहण व्यर्थमित्यत आह । वेति वाच्ये इति ॥ हेत्वादाविति ॥ 'कृओो हेतुताच्छील्यानुलोम्येषु' इति विहित इत्यर्थः । कथ न्तहति ॥ ‘कृङओो हेतु’ इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम् । खचेि तु मुम् स्यादि त्याक्षेपः । समाधत्त । कर्मणश्शेषत्वेति । तथाच कर्मोपपदाभावात् अणभावे चाजिति भावः । क्षेमङ्करीति तु गौरादित्वात् डीषेित्याहु । आशिते ॥ करणे उदाहरति । आा शितो भवत्यनेननेति ॥ भावे उदाहरति । आशितस्य भवनमिति ॥ संज्ञायाम् ॥ खजिति शेषः । भू, तृ, वृ, जि, धारि, सहि, तपि, दमि, एषामष्टाना समाहाग्द्वन्द्वात्पञ्चमी ।