सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५०७
बालमनोरमा ।

२९१९ । तुन्दशोकयोः परिमृजापनुदोः । (३-२-५)

तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यान् । * आलस्यसुखाहरण योरिति वक्तव्यम्’ (वा १९८८) । तुन्दं परिमाष्टति तुन्दपरिमृजोऽलसः । शोकापनुदः । सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारा सारत्वोपदेशेन शोकमपनुदति स शोकापनोदः । “कप्रकरणे मूलविभुजादिभ्य उपसङ्खयानम्' (वा १९८९) । मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीघ्रः । कुभ्रः । गिलतीति गिलः ।

२९२० । प्रे दाज्ञः । (३-२-६)

दारूपाञ्जानातेश्च प्रोपस्सृष्टात्कर्मण्युपपदे कः स्याद्णोऽपवाद । सव प्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तः प्रादन्यस्मिन्सुपि न कः गोसम्प्रदायः ।

२९२१ । समि ख्यः । (३-२-७)

गोसङ्खयः ।

२९२२ । गापोष्टक् । (३-२-८ )

अनुपसृष्टाभ्यामाभ्यां टक्रयात्कमण्युपपद । सामग:-सामर्गी । उप सर्गे तु सामसङ्गायः । 'पिबतेः सुराशीध्वोरिति वाच्यम्’ (वा १९९०) । सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ।


भावः । तुन्दशोकयोः ॥ तुन्दशोकयोरिति सप्तमी । परिमृज, अपनुद, अनयोर्द्धन्द्वात्पञ्चम्यर्थे षष्ठी । तदाह । उपपदयोराभ्यामिति ॥ तुन्दपरिमृज इति ॥ तुन्दम् उदरम् । अत्र मृजेरजादौ' इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहु । मूलानि विभुज तीति ॥ विमर्दयतीत्यर्थः । 'भुजो कौटिल्य' तुदादि । इहोपसर्गबलान्मर्दने वृत्तिः । महीध्र इति ॥ मही धरतीति विग्रहः । कित्वान्न गुण’ । ऋकारस्य यण् रेफः । अणि दु महीधार इति स्यात् । कुभ्र इति । कुः पृथ्वी, तां धरतीति विग्रहः । गिल इति ॥ गू निगरणे' अस्मात् कः कित्त्वान्न गुणः, इत्व रपरत्वम् । “अचि विभाषा' इति लत्वम् । प्रे दाज्ञः ॥ प्रे इति सप्तमी पञ्चम्यर्थे । दा ज्ञा अनयोर्द्धन्द्वात् पञ्चम्येकवचनम् । प्रोपस्पृष्टा दिति ॥ प्रेत्युपसर्गपूर्वकादित्यर्थ । सोपसर्गार्थ आरम्भः । समि ख्यः । समीति पञ्चम्यर्थे सप्तमी । गोसङ्खय इति ॥ गाः सञ्चष्ट इति विग्रहः । सम्पूर्वात् चक्षिडः स्व्यालि रूपम् । ख्या प्रकथने ' इत्यस्य तु सम्पूर्वस्य प्रयोगाभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते । गापोष्टक् ॥ “गै शब्द, पा पाने' इत्यनयोः टक् स्यात् कर्मण्युपपद । सामग इति ॥ टकि आतो लोपः । सामगीति ॥ टित्वान्डीबिति भावः । सामसङ्गाय इति ॥ सोपसर्गात् गै धातो कर्मण्यणि आतो युकि रूपम् । पिबतेरिद्धि ॥ वार्तिकमिदम् । पाधातोः सुराशीध्वोरुपपदयेोः टक्