पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७०
[कृदन्त
सिध्दान्तकौमुदीसहिता

२९२३ । हरतेरनुद्यमनेऽच् । (३-२-९)

अशहर । 'अनुद्यमने' किम् । भारहार । * शक्तिलाङ्गलाङ्कशतोमर यष्टिघटघटीधनुःषु गृहेरुपसङ्खयानम्’ (वा १९९२) शक्तिग्रहः । लाङ्गलग्रहः । 'सूत्रे च धार्येऽर्थे' (वा १९९३) सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव, सूत्रग्राहः ।

२९२४ । वयसि च । (३-२-१०)

उद्यमनाथै सूखम् । कवचहरः कुमार ।

२९२५ । आङि ताच्छील्ये । (३-२-११)

पुष्पाण्याहरति तच्छीलः । पुष्पाहर: *ताच्छील्ये' किम् । भाराहारः ।

२९२६ । अर्हः । (३-२-१२)

अर्हतेरच्स्यात्कर्मण्युपपदे अणोऽपवादः । पूजार्ह ब्राह्मणी ।

२९२७ । स्तम्बकर्णयो रमिजपेोः । (३-२-१३)

हस्तिसूचकयोरिति वक्तव्यम्’ (वा १९९४) । स्तम्बे रमते स्तम्बे रमो हस्ती । “तत्पुरुषे कृति -' (सू९७२) इति “हलदन्तात्-' (सू९६६) इति वा डेरलुक् । कर्णेजपः सूचकः ।


स्यादित्यर्थः । क्षीरपेति ॥ क्षीरपिबतीत्यर्थे सुराशीध्वोरन्यतरत्वाभावात् ‘आतोऽनुपसर्गे क इति कप्रत्यये टाप् । पाति रक्षतीति ॥ 'पा रक्षणे' इति लुग्विकरणस्य पिबतिग्रहणेन अग्रहणमिति भावः । हरतेरनुद्यमनेऽच् ॥ अनुद्यमने विद्यमानात्कर्मण्युपपदे अजित्यर्थ । उद्यमनम् उद्वहणम् । अंशहर इति ॥ अशस्य स्वीकर्तेत्यर्थ । भारहार इति ॥ भारम् उट्टहातीत्यर्थ । गृहेरुपसङ्खयानमिति ॥ अच्प्रत्ययस्येति शेष. । 'ग्रह उपादाने' अदुपधः । गृहेरिति तु कृतसम्प्रसारणस्य इका निर्देश . । शक्तिग्रह इति ॥ आकित्वान्न सम्प्रसारणम् । लाङ्गलग्रह इति ॥ अङ्कशग्रह इत्याद्यप्युदाहार्यम् । सूत्रे चेति ॥ वातकामदम् । सूत कम प्युपपदे धारणाथकात्प्रह्वधाताराजल्यथः । वयसि च ॥ कर्मण्युपपदे वयसि गम्ये हरतेराजित्यर्थः। ननु 'हरतरनुद्यमनेऽच्' इत्येव सिद्धे किमर्थमिदमित्यत आह । उद्यमनार्थमिति ॥ आङि ताच्छील्ये ॥ आङ्पूर्वाद्धरतःकर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये । ताच्छील्यन्तत्स्वभावता । पुष्पाहर इति ॥ पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः । अर्हः ॥ अणो ऽपवाद इति । यद्यपि अणि अचि च पूजार्हरूप न विशेषः । अदुपधत्वाभावेन वृद्धेरप्रसत्तेः । तथापि स्त्रियामण्णन्तत्वे डीप्स्यात् । तन्निवृत्तय अज्विधि । तदाह । पूजार्हति । स्तम्ब कर्णयोः ॥ रम् जप् अनयोरकर्मकत्वात् कर्मणीति न सम्बध्यते । जपेश्शब्दोचारणार्थकस्य धात्वर्थोपसङ्गहादकर्मकत्वम्बोध्यम् । दर्भादितृणनिचयः स्तम्बः । सूचकः पिशुनः। हस्तिसूचकयो