सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५०३
बालमनोरमा ।

२९०६ । गेहे कः । (३-१-१४४)

गेहे कर्तरि प्रहेः कः स्यात् । गृहाति धान्यादिकमिति गृहम् । तात्स्थ्यात् गृहा दाराः ।

२९०७ । शिल्पिनि ष्वुन् । (३-१-१४५)

क्रियाकौशलं शिल्पं तद्वत्कर्तरि घ्वुन्स्यात् । “ नृतिखनिरञ्जिभ्य एव (वा १९७१) । नर्तकः-नर्तकी । खनकः-खनकी । ‘असि अके अने च रजे र्नलोपो वाच्यः' (वा ४०६७) । रजकः-रजकी । भाष्यमते तु नृतिखनिभ्या मेव ष्वुन् । रबेस्तु 'क्बुन्शिल्पिसंज्ञयोः' (उणा १९१) इति क्वुन् । टाप् । राजका । पुयाग तु रजका ।

२९०८ । गास्थकन् । (३-१-१४६)

गायतेस्थकन्स्यात्, शिल्पिनि कर्तरि । गाथकः ।

२९०९ । प्युट् च । (३-१-१४७)

गायनः । टित्वाद्भायनी ।

२९१० । हश्च त्रीहेिकालयोः । (३-१-१४८)


प्रापयति स्वस्वकार्यमित्यर्थे 'भू प्राप्तौ' इति चुरादिण्यन्तात् भावि इत्यस्मात् अच्प्रत्यये णिलोपे भावशब्द इत्यर्थः । गेहे वक ॥ 'विभाषा ग्रहः’ इत्यस्यापवादः । गृहमिति । ‘ग्रहिज्या' इति सम्प्रसारणं पूर्वरूपञ्च । ननु गृहा दारा इति कथम् । गेहे कर्तर्येव वाच्ये कप्रत्ययविधाना दित्यत आह । तात्स्थ्यादिति । गृहशब्दो गेहस्थे लाक्षणिकः इति भावः । गृहा दारा इति । “दारेष्वपि गृहा ' इत्यमर । शिल्पिनि ष्वुन् ॥ नृतिखनिरञ्जिभ्य एवेति ॥ वार्तिकमिदम् । नर्तकीति ॥ षित्वात् डीषिति भाव । 'दशसञ्जस्वञ्जा शपि' इति सूत्रे 'रजकरजनरजस्सूपसङ्खयानम्' इति वार्तिकम् । तत् अर्थतस्सहाति । असि अके अनेन चेति ॥ रजक इति । रखे. शिल्पिनि घ्बुनि अकादेशे नलोपः । रजकीति ॥ षित्वात् डीष् । नृतिखनिरञ्जिभ्य एवेति परिगणनात् । “वेञ् तन्तुसन्ताने' इत्यस्मात् कृतात्त्वंत् इयाद्यध' इति णप्रत्यये आतो युकि वाय इति सिध्यति । भाष्यमते तु नृतिखनि भ्यामेवेति ॥ इदञ्च 'दशमञ्जस्वञ्जा शपि' इति सूत्रे भाष्ये स्पष्टम् । ननु भाष्यमते क्वुनि रजकीति कथमित्यत आह । पुंयोगे तु रजकीति ॥ गस्थकन् ॥ गः थकन्निति च्छेद । गैधातोः कृतात्वस्य गः इति पञ्चम्यन्तम् । तदाह युट् च ककार उक्तसमुचये । गायतण्र्युट् च स्यात् थकन् च शिल्पिनि कर्तरि । गायन इति ॥ आत्वे युक् । “ आदे च' इत्यात्वस्य अनैमित्तिकत्वेन वृद्धद्यपेक्षया अन्तरङ्गत्वात् । यद्यपि गस्थकन्ण्यु ट् च' इत्येकमेव सूत्रमुचितम् । तथापि प्युट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः । हश्च ॥ ‘ओ हाक् त्यागे' इत्यस्य ‘ओ हाड् गतौ' इत्यस्य च हः इति पञ्चम्यन्तम् ।