पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०२
[कृद्न्त
सिध्दान्तकौमुदीसहिता


२९०३॥३श्याद्यधाधुसंस्वतीणवसावह्नलिहश्लिषश्धसश्च।(३-१-१४१)

इयैङ्प्रभृतिभ्यो नित्यं णः स्यात् । इयेडोऽवस्यतेश्चादन्तत्वात्सिद्धे पृथ ग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । “सु गतैौ' आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अव श्वास

२९०४ । दुन्योरनुपसर्गे । (३-१-१४२)

णः स्यात् । दुनोतीति दाव । नीसाहचर्यात्सानुबन्धकाढुनोतेरेव णः । द्वतेस्तु पचाद्यच् दृवः । नयतीति नाय । उपसर्गे तु प्रद्वः । प्रणयः ।

२९०५ । विभाषा ग्रहः । (३-१-१४३)

णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्यो तिषि प्रहः । 'भवतेश्च' इति काशिका । भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्ताद्च् । भाव


भाष्ये उदाहरणादिति भावः । श्याद्यधालु ॥ ३या, आत्, व्यध, आलु, सखु, अतीणु , अवसा अवह्व, लिह, श्लिष, श्वस्, एषामेकादशानां समाहारद्वन्द्वात्पञ्चमी । अनुपसर्गादिति निवृत्तम् । उत्तरसूत्रेऽनुपसर्गग्रहणात्। एवञ्च तत्सम्बद्धं विभाषाग्रहणञ्च नानुवर्तते । तदाह । नित्यमिति ॥ इयैङः इति । इयैड्धातोः अवपूर्वकात् षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः । तयोरादन्तत्वादेव सिद्धे पुनहणम् 'आतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः । अवश्यायः, प्रतिश्याय इत ।। २यडः आत्व ऋत णः आता युक् । अादात ॥ आदन्तस्यादाहरणसूचनम् । दायः, धायः इति ॥ ण आतो युक् । व्याध इति ॥ व्यधेणें उपधावृद्धिः । आस्रावः संस्राव इति ॥ णे “अचोऽञ्णिति' इति वृद्धि, आवादेशः । अत्याय इति ॥ अति पूर्वादिण्धातोणें वृछायादेशौ । अवसाय इति । अवपूर्वात् “षोऽन्तकर्मणि' इत्यस्मात् पेण आत्वे आतो युक् । लेहः, श्लेषः इति । णे लघूपधगुणः । श्वास इति । णे उपधावृद्धिः । दुन्योरनुपसर्गे ।। दुनोतेः नयतेश्चत्यर्थः । दवशब्द साधयितुमाह । नीसाहचर्यादिति ॥ नीञ्धातुस्सानुबन्धकः तत्साहचर्यात् “टु दु उपतापे' इति स्वादि गणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । ‘दु द्रु गतौ' इति भौवादिकात् निरनु बन्धकात्पचाद्यजित्यर्थः । विभाषा ग्रहः ॥ व्यवस्थितविभाषेयमिति । इदं ‘शाच्छो इति सूत्रे भाष्ये स्पष्टम् । तेनेति ॥ जलचरे मत्स्यादौ वाच्ये णप्रत्यय उपधावृद्धौ ग्राह इत्येव भवति । ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये ग्रह इत्येव भवतीत्यर्थः । भवते श्रेति ॥ णो वेति शेषः । पक्षे अच् । काशिकेति । भाष्ये तु न दृश्यते इति भावः । इय मपि व्यवस्थितविभाषेव । तदाह । भवो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्र ण एवेति भावः । ननु भवतेवेति णविकल्पस्य भाष्ये अदर्शनात् कथ भाध्यमते भावशब्द इत्यत आह । भाष्यमते त्विति । भावयति