सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४४१
बालमनोरमा ।


वा स्यात् । अलम्भि-अलाभि । व्यवस्थितविकल्पत्वा प्रादेनित्यं नुम् । प्रालम्भि द्विकर्मकाणां तु

गौणे कर्मणि दुह्यादेः प्रधाने नीट्टकृष्वहाम्

बुद्धिभक्षार्थयोः शव्दकर्मणां च निजेच्छया

योज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता

(१०९०-१०९५ वार्तिकार्थः) गौर्दूह्यते पय अजा ग्रामं नीयते

शेष पूरयति । लभेर्नुमागमो वेति ननु प्रालम्भि उपालम्भीत्यादौ उपसर्गपूर्वस्यापि लभेर्नुम्विकल्पः स्यादित्यत आह प्रादेरुपसगात्परस्य लभेर्नित्य नुम् अनुपसर्गात्परस्य तु लभेर्विभाषा नुमिति व्यवस्थितविकल्पाश्रयणादुपसर्गपूर्वस्य लभर्नित्य नु मित्यर्थ । ‘चिण्णमुलोरनुपसर्गस्य’ इति वार्तिकाद्राध्ये ‘उपसर्गात् खल्घो .’ इत्यतः उपसर्गदिति ‘न सुदुभ्यम्’ इत्यतो नेति चानुवर्ल उपसर्गात्परस्य लभे. 'विभापा चिण्णमुलो 'इति नेति व्याख्या तत्वाच्च । एतेन प्रपूर्वस्य लभेर्नित्य नुमिति व्याख्यान परास्तम् कर्मणि' इति कर्मणि लकारा विहिताः । तथा ‘तयोरेव कृल्यक्तखलथी.’ इति कर्मणि कृत्यादिप्रत्यया वक्ष्यन्ते। ते तावत् द्विकर्म कधातुपु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह । द्विकर्मकाणां त्विति ॥ कर्मप्रत्य यव्यवस्था वक्ष्यत इति शेष ता व्यवस्था सार्धश्छेोकेन दर्शयति । गौणे कर्मणी श्रुमुषाम्' गौणे कर्मणि लादयेो मता अकथितश्च' इति सूत्रेण यस्य कर्मसज्ञा तत् गौणङ्कर्मेति बोद्यम्। प्रधाने इति नीहृकृष्वहां प्रधाने कर्मणि लादयो मता इत्यन्वय अकथितश्च' इति सूत्रादन्येन यस्य कर्म सज्ञा तत्प्रधानङ्कर्मेति बोच्द्यम् । अथ “गतिबुद्धि' इति सूत्रेण ये द्विकर्मकाः तेषु व्यवस्थामाह बुद्धीति ॥ बुद्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणाञ्च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वय इह 'गतिबुद्धि' इत्यनेन यस्य कर्मसज्ञा तत् गौण कर्म । तदितरन्तु प्रधानङ्कर्म । प्रयोज्येति । अन्येषा गत्यर्थाना अकर्मकाणा “ह्मक्रो ? इति सूत्रोपात्तहृकृओश्च प्रयोज्यकर्मणि लादयो मता इत्यन्वय अय साधेश्लोकः * अकथितश्च' इति सूत्रस्थवार्तिक भाष्यसङ्गह इति बोद्यम् । गौदुह्यते पयः इति ॥ गोपेनेति शेषः । अत्र गोरप्रधानकर्म त्वात्तास्मिन् कर्मणि लकारः । तिडा अभिहितत्वात् गोः प्रथमा। प्रधानकर्मत्वात्पय इति द्वितीया न्तम् । तस्य तिडा अनभिहितत्वात् । बलियोच्यते वसुधाम् । अविनीतो विनयं याच्यते तण्डुलाः ओदन पच्यन्ते । गर्गाः शत दण्ड्यन्त । व्रजो रुछद्यते गाम् । माणवकः पन्थान पृच्छयते । वृक्षेोऽपचीयत फलानि । माणवको धर्म उच्यते । शिष्यते वा । शत जीयते देव दत्तः । सुधां क्षीरोदधिर्मथ्यते । देवदत्तश्शत मुष्यते । एतेषु गौणकर्मणि लकार अथ प्रधानेन नीहकृष्वहामित्यत्रोदाहरति । अजा ग्रामं नीयते, ह्रियते, कृष्यते, उह्यते इति । प्रति क्रियमजा ग्राममित्यन्वेति । उह्यत इत्यत्र वहतेतर्यजादित्वात्सम्प्रसारणम् । अत्र अजायाम्प्रधान