पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४२
[भ्वादि
सिध्दान्तकौमुदीसहिता


ह्रियते । कृष्यते । उह्यते । बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा । भोज्यते माणवकमोदनः, माणवक ओदनं वा । देवदत्तो ग्रामं गम्यते । * अक मैकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते ? । मासो मासे वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः ।

इति भावकर्मतिङ्प्रकरणम्


कर्मणि लकारः । प्रामस्यानभिहितत्वात् द्वितीया । बुद्यर्थस्योदाहरति । बोद्धद्यते माणव वकं धर्मः, माणवको धर्ममिति वेति ॥ । अत्र माणवकं गौणकर्मणि धर्मे गुरुणात शष वा प्रधानकर्मणि ण्यन्तात् लकारः। भक्षार्थस्य तु अश्यन्त देवाः अमृतं हरिणा, अश्यतेऽमृत दे वानिति वा उदाहार्यम् । शव्दकर्मकस्य तु वेदोऽछद्याप्यते विधिं हरिणा, वेदमछद्याप्यते विधि रिति वेत्युदाहार्यम् । यदुक्तङ्गल्यर्थाना अकर्मकाणा हृकृओश्चत्येतेषा प्रयोज्यकर्मणि लकार इति । तत्र गत्यर्थस्योदाहरति । देवदत्तो ग्रामं गम्यते इति । यज्ञदत्तेनेति शेषः । अत्र प्रयेो ज्यकर्मणि देवदत्ते गमेण्र्यन्तात् ल । ननु अकर्मकाणा ण्यन्तानां प्रयोज्यकर्मण्येव लादय इति व्यवस्था व्यर्था । तत्र प्रयोज्य विना अन्यस्य कर्मणोऽभावादित्याशङ्कय 'अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽश्वा च कर्मसज्ञक इति वाच्यम्’ इति वार्तिकेन अकर्मकधातूनामपि देशकालादिकर्मत्वेन ण्यन्ताना तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति व्यवस्था प्रयोजनवतीत्यभिप्रल्य मासमास्यते माणवक इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लः, नतु मासे कर्मणि इत्युदाहरिष्यते । एवं तर्हि अण्यन्तेष्वकर्मकेषु मासमास्यते देवदत्तेनेति भावे लकारो न स्यात् । सकर्मकेभ्यः कर्मणि कर्तरि च ल इति नियमात् मास आस्यते देवदत्तेनेत्येव कर्मणि मासे लकारः स्यादित्याशङ्कय आह । अवकर्मकाणामित्यादि । य अकमकाः ' कतुः रीप्सिततमङ्कर्म, तथायुक्तञ्चानीप्सितम्' इति सूत्रसिद्धकर्मरहिता ‘आस उपवेशने, वृतु वर्तने इत्यादयः, तेषां “अकर्मकधातुभिर्योगे' इति वार्तिकसिद्धाकर्मकाणाङ्कर्मणि भावे च लकार इष्यते इत्यर्थः । नचेद वार्तिकमिति भ्रमितव्यम् । भाष्ये अदर्शनात् । किन्तु न्यायमूलकमेव । अकर्मक धातुभिर्योगे देशकालादीना कर्मसज्ञाविकल्पस्य भाष्याद्यभिमतत्वात् । यथा चैतत्तथा कारकाधिकारे अंकर्मकधातुभिर्योगे' इति वचनव्याख्यावसरे अवोचाम। तदाह । मासो मासे वा आस्यते देवदत्तेनेति । अत्र मासस्य कर्मत्वपक्षे कर्मलकार. । मासस्याभिहितत्वात् प्रथमा । मासस्य कर्मत्वाभावपक्षे तु भावे लकारः । मास इति सप्तमी । मासामात त्वपपाठः । अथ प्रकृतमनुस राति । णिजन्तात्विति ॥ आसधातोः प्रकृतिसिद्धकर्मरहितत्वेन अकर्मकाण्णौ मासस्य कर्म त्वपक्षेऽपि प्रयेोज्यकर्मण्येव लकार इत्यर्थः । मासमास्यते माणवकः इति ॥ ण्यन्तात्प्रयो यकर्मणि माणवके ल: । मासस्यानभिहितत्वात् द्वितीया । हृकोस्तु हार्यते कार्यते वा भृत्य कटं देवदत्तेन ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां भावकर्मप्रक्रिया समाप्ता ।