सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१७५
बालमनोरमा ।

२४१६ । न व्यो लिटि । (६-१-४६)

व्येञ आत्त्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । 'इडत्त्यर्ति--' (सू २३८४) इति नित्यमिट् । विव्ययिथ । विव्याय--विव्यय । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त । ह्वेञ् १००८ स्पर्धायां शब्दे च । ह्वयति । ह्वयते ।


देशौ । णलादौ तु आत्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम् । तत्राह । न व्यो लिटि ॥ व्ये इत्यस्य कृतात्त्वस्य षष्ठ्यन्तस्य व्यः इति निर्देश । आत्त्वमिति ॥ 'आदेच उपदेशे' इत्यतः तदनुवृत्तेरिति भावः । वृद्धिरिति ॥ णलि व्ये अ इति स्थिते 'अचो ञ्णिति' इति वृद्धिरित्यर्थः । तथाच व्यै अ इति स्थितम् । ननु तत्र द्वित्वे 'लिट्यभ्यासस्य’ इत्यभ्यासे यकारस्य सम्प्रसारणे पूर्वरूपे उत्तरखण्डस्य आयादेशे विव्याय इति रूप वक्ष्यति । तदयुक्तम् । सम्प्रसारणात्प्राक् परत्वात् हलादिशेषेण यकारस्य निवृत्तौ वकारस्य सम्प्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह । परमपीति ॥ उभयेषामिति ॥ 'लिट्यभ्यासस्य' इति सूत्रे उभयेषामिति ग्रहणसामर्थ्यादित्यर्थः । तदेवोपपादयति । अन्यथेति ॥ 'वचिस्वपियजादीनाम्' इत्यस्य 'ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छातिभृज्जतिनाम्' इत्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुनर्लिट्यभ्यासस्य इत्यत्र उभयेषां ग्रहणं पुनर्विधानार्थम् । तथाच वच्यादीनां ग्रह्यादीनाञ्चाभ्यासस्य सम्प्रसारण स्याल्लिटीति द्विर्विधानं लब्धम् । तत्र द्वितीय विधानं नियमार्थम् । उभयेषामभ्यासस्य सम्प्रसारणमेव स्यान्नेतरदिति । तेनाभ्यासे एतत्सम्प्रसारणविषये कार्यान्तरनिवृत्तिस्सिध्देत्यर्थः । तथाच प्रकृते अभ्यासयकारस्य सम्प्रसारणे सिद्ध रूपमाह । विव्यायेति । विव्यतुः । विव्युः इति ॥ 'वचिस्वपि' इति सम्प्रसारणे द्वित्वे यणिति भावः । थलि भारद्वाजनियमादिड्विकल्पमाशङ्क्याह । इडत्त्यर्तीति ॥ विव्ययिथेति ॥ अकित्त्वादभ्यासस्य सम्प्रसारणमिति भावः । विव्यथुः । विव्य । विव्याय-विव्ययेति ॥ अकित्त्वादभ्यासस्य सम्प्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः । विव्यिव । विव्यिम । विव्ये इति ॥ कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे वि इत्यस्य द्वित्वे यणिति भावः । विव्याते । विव्यिरे । विव्यिषे । विव्याथे । विव्यिध्वे । विव्ये । विव्यिवहे । विव्यिमहे । व्यातेति ॥ तासि एकारस्य आत्त्वम् । व्यास्यति । व्ययतु । व्ययताम् । अव्ययतुः । अव्ययत । व्ययेत् । वीयादिति ॥ कित्त्वात् ‘वचिस्वपि’ इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घः । वीयास्ताम् । व्यासीष्टेति ॥ आशीर्लिङि सीयुटि आत्त्वम् । अव्यासीदिति ॥ लुडि सिचि आत्त्वे इट्सकोः सिज्लोपः । अव्यासिष्टामित्यादि । अव्यास्तेति ॥ लुडि आत्मनेपदे अव्ये स् त इति स्थिते आत्त्वमिति भावः । अव्यासातामित्यादि । अव्यास्यत् । अव्यास्यत । ह्वेञ् धातुरनिट् । ञित्त्वादुभयपदी । शब्दे चेति ॥