पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
[भ्वादि
सिध्दान्तकौमुदीसहिता


वात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्त्वात्तङ् । ऊये । ऊवे । वयादेशाभावे ।

२४१५ । वेञः । (६-१-४०)

वेञो न सम्प्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ-ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् । व्येञ् १००७ संवरणे । व्ययति । व्ययते ।


उवयिथेति ॥ अकित्त्वान्न वः । अजन्तत्वादकारत्त्वाच्च थलि इण्निषेधमाशङ्क्याह । वयेस्तासावभावात्थलि नित्यमिडिति ॥ वयेर्लिट्येव विहितत्वेन तासावभावात् ‘अचस्तास्वत्' इति 'उपदेशेऽत्वत्' इति च इण्निषेधाप्रसक्तया क्रादिनियमान्नित्यमिडिलयर्थः । 'यस्तासावस्ति नित्यानिट् च' इति भाष्यम् । ऊयथु -ऊवथुः । ऊय-ऊव । उवाय-उवय । ऊयिव-ऊविव । उयिम—ऊविम । ननु वयेरडित्त्वात् कथमुभयपदित्वमित्यत आह । स्थानिवद्भावेनेति । ऊये-ऊवे इति ॥ 'वश्चास्यान्यतरस्याम्' इति वत्वविकल्पः । वत्वाभावे 'लिटि वयो यः' इति यकारस्य सम्प्रसारणनिषेधः । वकारस्य 'ग्रहिज्या' इति 'वचिस्वपि' इति वा सम्प्रसारणम् । ऊयाते । ऊयिरे । ऊयिषे । ऊयाथे । ऊयिध्वे । ऊये । उयिवहे । ऊयिमहे । क्रादिनियमादिट् । एवं ऊवाते । ऊविरे । इत्यादि । वयादेशाभावे इति ॥ यजादित्वात् 'लिट्यभ्यासस्य’ इति 'वचिस्वपि' इति च सम्प्रसारणे सतीति शेषः । वेञः ॥ 'लिटि वयो यः' इत्यतो लिटीति 'न सम्प्रसारणे सम्प्रसारणम्' इत्यतो न सम्प्रसारणमिति चानुवर्तते । तदाह । वेञो नेति ॥ अत्र कितीति नानुवर्तते । तदाह । ववाविति ॥ णलि सम्प्रसारणनिषेधे 'आदे च उपदेशे' इत्यात्त्वे 'आत ओ णल' इत्यौभावे 'वृद्धिरेचि' इति वृद्धौ रूपम् । ववतुरिति ॥ 'आदेच' इत्यात्त्वे 'आतो लोपः' । एवं ववुः । भारद्वाजनियमात्थलि वेट् । वेञस्तासावनिट्कत्वात् । तदाह । वविथ ववाथेति ॥ इट्रपक्षे अकित्त्वेऽपि इटपरत्वादाल्लोप इति भावः । ववथुः । वव । ववौ । वविव । वविम । क्रादिनियमादिट् । ववे इति ॥ ववाते । वविरे । वाविषे । ववाथे । वविध्वे । ववे । वविवहे । वविमहे । वातेति ॥ लुटि तासि आत्त्वम् । वास्यति । वास्यते । वयतु । वयताम् । अवयत् । अवयत । वयेत् । वयेत । ऊयादिति ॥ आशीर्लिङि यासुटि आत्त्वे कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयो' इति दीर्घ इति भावः । वासीष्टेति ॥ आशीर्लिङि आत्मनेपदे सीयुटि आत्त्वे रूपम् । वासीयास्ताम् । अवासीदिति ॥ आत्त्वे कृते इट् सकौ । अवास् इ स् ईदिति स्थिते 'इट ईटि' इति सिज्लोपः । अवासिष्टामित्यादि । आत्मनेपदे, अवास्त । अवासाता, इत्यादि । अवास्यत् । अवास्यत । व्येञ् । संवरणे इति ॥ ञित्त्वादुभयपदी । अनिट् । व्ययति-व्ययते इति ॥ शपि गुणाया-