पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२४१७ । अभ्यस्तस्य च । (६-१-३३)

अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ-जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ।

२४१८ । लिपिसिचिह्वश्च । (३-१-५३)

एभ्यश्च्लेरङ् स्यात् ।

२४१९ । आत्मनेपदेष्वन्यतरस्याम् । (३-२-५४)

'आतो लोपः' (सू २३७२) । अह्वत् । अह्वताम् । अह्वन् । अह्वत । अह्वास्त ।


आकारणार्थः आगच्छेत्यादिशब्दोऽत्र विवक्षितः। ह्वयति-ह्वयते इति ॥ शपि गुणायादेशो । णलादौ अकिति 'लिट्यभ्यासस्य' इति अभ्यासस्यैव सम्प्रसारणे प्राप्ते । अभ्यस्तस्य च ॥ 'ह्वः सम्प्रसारणम्' इत्यनुवर्तते । ह्व इति कृतात्त्वस्य ह्वे इत्यस्य षष्ठ्यन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेञ् सम्प्रसारणमिति लभ्यते । तथा सति णलि ह्वे अ इति स्थिते द्वित्वे कृते 'उभे अभ्यस्तम्' इत्यभ्यस्तसज्ञायामुत्तरखन्ण्डस्य सम्प्रसरणे कृते पूर्वखण्डस्याभ्यासस्य 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधः स्यादित्यत आह । अभ्यस्तीभविष्यतः इति ॥ ननु यद्यभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्सम्प्रसारणे सति 'विप्रातिषेधे यद्बाधितन्तद्बाधितम्' इति न्यायात् द्वित्वन्न स्यादित्यत आह । ततो द्वित्वमिति ॥ सम्प्रसारणानन्तर द्वित्वमित्यर्थः । ‘पुनः प्रसङ्गविज्ञानात्' इति भावः । तथाच णलि आत्त्वे कृते सम्प्रसारणे पररूपे हु इत्यस्य द्वित्वे ‘कुहोश्चुः' इति श्चुत्वे तस्य जश्त्वे 'अचो ञ्णिति' इति वृद्धौ आवादेशे परिनिष्ठितं रूपमाह । जुहावेति । जुहुवतुरिति ॥ अतुसि आत्त्वे आल्लोपम्बाधित्वा अन्तरङ्गत्वात् ‘अभ्यस्तस्य च' इत्यनेन सम्प्रसारणे ‘वार्णादाङ्गम्बलीयः' इत्यस्यानित्यतया अन्तरङ्गात्पूर्वरूपे कृते द्वित्वे उवडिति भावः । यद्यपि किति ‘वचिस्वपि' इति सम्प्रसारणेऽपि सिद्धमिदम् । तथापि अकिति आवश्यकमभ्यस्तस्यचेत्येतत् न्याय्यत्वादिहापि भवतीति बोध्द्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट् । तदाह । जुहोथ-जुहविथेति ॥ जुहुवथुः । जुहुव । जुहाव-जुहव । जुहुविव । जुहुविम । क्रादिनियमादिट् । जुहुवे । जुहुवाते । जुहुविरे । जुहुविषे । जुहुवाथे । जुहुविध्वे । जुहुवे । जुहुविवहे । जुहुविमहे । ह्वातेति ॥ तासि आत्त्वम् । ह्वास्यति । ह्वास्यते । ह्वयतु । ह्वयताम् । अह्वयत् । अह्वयत । ह्वयेत् । ह्वयेत । ह्वयादिति ॥ आशीर्लिङि आत्त्वे यासुटि कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणे पर्वरूपे 'अकृन्सार्वधातुकयोः' इति दीर्घ इति भावः । ह्वासीष्टेति ॥ आशीर्लिङि सीयुटि रूपम् । लुडि विशेषमाह । लिपि सिचि ॥ लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । 'च्लेः सिच' इत्यतः च्लेरिति ‘अस्यतिवक्तिख्यातिभ्यः’ इत्यतः अडिति चानुवर्तते । तदाह । एभ्यः इति ॥ इदम्परस्मैपदविषयम् । आत्मनेपदे विकल्पविधानात् । तदाह । आत्मनेपदेषु । आतो लोपः इति ॥ अह्वा अ त् इति स्थिते 'आतो लोप इटि च' इत्याल्लोप इत्यर्थः । अह्वदिति ॥ अह्वताम् ।