सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६७
बालमनोरमा ।

नलोपः । दशति । ददंशिथ-ददंष्ठ । दंष्टा । दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् । कृष ९९० विलेखने । विलेखनमाकर्षणम् । क्रष्टा-कर्ष्टा । क्रक्ष्यति-कर्क्ष्यति । 'स्पृशमृशकृषतृषदृषां च्लेः सिज्वा वाच्य:’ (वा १८२६) । अक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अकृक्षन् । दह ९९१ भस्मीकरणे । देहिथ-ददग्ध । दग्धा । धक्ष्यति । अधाक्षीत् । अदाग्धाम् । अधाक्षुः । मिह ९९२ सेचने । मिमेह । मिमे-


इति । दशतीति ॥ अनुस्वारस्यासिद्धत्वादिति भावः । दशसज्जेत्यत्र शपीत्युक्तेरार्धधातुके नलोपो न । सयोगात्परत्वेन लिट कित्त्वाभावादनिदितामित्यपि न । ददश । ददशतुः । ददशुः । भारद्वाजनियमात्थलि वेट् । तदाह । ददंशिथ-ददंष्ठेति ॥ अनिट्पक्षे व्रश्चादिना शस्य षः थस्य ष्टुत्वेन ठ इति भावः । तासि व्रश्चादिना शस्य षत्वे तकारस्य ष्टुत्वमिति भावः । दङ्क्ष्यतीति ॥ व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे डकारे सस्य षत्वमिति भावः । दशतु । अदशत् । दशेत् । दश्यादिति ॥ आशीर्लिङि 'अनिदिताम्' इति नलोप इति भावः । अदाङ्क्षीदिति ॥ सिचि शस्य षः तस्य कः अनुस्वारस्य परसवर्णेन डः सस्य षत्वमिति भावः । अदङ्क्ष्यत् । कृष विलेखने इति ॥ अनिडयम्। कर्षति । चकर्ष । चकृषतुः । चकृषुः । थलि अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् । चकर्षिथ । चकृषथुः । चकृष । चकर्ष । चकृषिव । चकृषिम । इति सिद्धवत्कृत्याह । क्रष्टा-कर्ष्टेति ॥ ‘अनुदात्तस्य च' इत्येव विकल्प । तकारस्य ष्टुत्वम्। क्रक्ष्यति-कर्क्ष्यतीति ॥ षस्य कत्वे सस्य षः । कर्षतु । अकर्षत् । कर्षेत् । कृष्यात् । 'शल इगुपधात्' इति च्लेः क्सादेशे प्राप्ते आह । स्पृशमृशेति । अक्राक्षीदिति ॥ च्लेः क्सादेशाभावे सिचि 'अनुदात्तस्य चर्दुपधस्य’ इत्यमि ॠकारस्य यणि हलन्तलक्षणवृद्धौ 'षढोः कस्सि' इत्यनेन षस्य कत्वे सस्य षत्वमिति भावः । अकार्क्षीदिति ॥ अमभावे सिचि वृद्धौ रूपम् । पक्षे क्सः इति ॥ च्ले सिजभावपक्षे ‘शल इगुपधात्’ इति क्स इत्यर्थः । अकृक्षदिति ॥ क्से सति कित्त्वाद्गुणाभावे षस्य कः सस्य ष इति भावः । अक्रक्ष्यत्-अकर्क्ष्यत् । दह भस्मीकरणे इति ॥ अनिट् । दहति । ददाह । देहतुः । देहुः । थलि तु भारद्वाजनियमाद्वेडित्याह । देहिथ-ददग्ध इति ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ । अनिट्पक्षे तु ‘दादेः’ इति हस्य घः 'झषस्तथोः' इति थस्य ध: घस्य जश्त्वेन ग इति भावः । देहथुः देह । ददाह-ददह । देहिव । देहिम । दग्धेति ॥ तासि हस्य घः तकारस्य धः घस्य गः इति भावः । धक्ष्यतीति ॥ हस्य घः दस्य भष् घस्य गः तस्य चर्त्वेन कः सस्य ष इति भावः । दहतु । अदहत् । दहेत् । दह्यात् । अधाक्षीदिति ॥ सिचि हलन्तलक्षणा वृद्धिः । हस्य घः दस्य भष् घस्य गः तस्य कः सस्य षः इति भावः । अदाग्धामिति ॥ सिचि वृद्धिः । हस्य घः 'झलो झलि’ इति सलोपः । 'झषस्तथो' इति तकारस्य धः । घस्य गः इति भावः । अधाक्षुरिति ॥ सिचि वृद्धिः हस्य घः दस्य भष् घस्य गः तस्य कः