हिंसार्थौ' । सर्भति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । 'षिभु षिभि' इत्येके । सेभति । सिम्भति । 'शुभ ४३२ शुम्भ ४३३ भाषणे' । 'भासने' इत्येके । 'हिंसायाम्' इत्यन्ये ।
अथानुनासिकान्ताः । तत्र कम्यन्ता अनुदात्तेतो दश । 'घिणि ४३४ घुणि ४३५ घृणि ४३६ ग्रहणे' । नुम् । ष्टुत्वम् । घिण्णते । जिाघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे । 'घुण ४३७ घूर्ण ४३८ भ्रमणे' । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ । 'पण ४३९ व्यवहारे स्तुतौ च' । पन ४४० च, स्तुतावित्येव संबद्ध्यते पृथङ्निर्देशात् । पनिसाहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः । व्यवहारे तु, पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायां चकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पणिषीष्ट । पनायति । पनायां चकार । पेने । 'भाम ४४१ क्रोधे' । भामते । बभामे । 'क्षमूष् ४४२ सहने' । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षंध्वे । चक्षमिवहे ।
र्लिङि अनिदित्वान्न लोपः । षिभु षिभि इत्येक इति ॥ इदुपधौ द्वितीय इदित् । शुभ शुम्भेति ॥ द्वितीयस्य आशीर्लिङि अनिदित्वान्न लोपः । इति गुपू इत्यादयः पवर्गान्ताः परस्मैपदिनो गता । कम्यन्ता इति ॥ कमु कान्तौ इत्येतत्पर्यन्ता इत्यर्थः । घुण घूर्णेति ॥ द्वितीयस्य दीर्घपाठः स्पष्टार्थ । उपधायाञ्चेत्येव दीर्घसिद्धे । केचित्तु । घुर्णेति ह्रस्वमेव पठन्ति । स्तुतावित्येवेति ॥ न तु व्यवहार इत्येवकारार्थ । पृथङ्निर्देशादिति ॥ अन्यथा पणपन व्यवहारेस्तुतौचेत्येव निर्देशादिति भावः । यद्यपि पृथङ्नर्देशो यथासङ्ख्यनिवृत्त्यर्थ इत्यपि वक्तुं शङ्क्यम् । तथापि सम्प्रदायानुरोधादेवमुक्तम् । पनि साहचर्यादिति ॥ पनधातुः स्तुतावेव वर्तते । तत्साहचर्यात् गुपूधूपविच्छेत्यत्र पणधातुरपि स्तुत्यर्थक एव गृह्यते । नतु व्यवहारार्थक । अतः स्तुतावेव पणधातोरायप्रत्यय । न तु व्यवहारे इत्यर्थः । क्रेतव्यद्रव्यस्य मूल्यनिर्धारणाय प्रश्नप्रतिवचनात्मको व्यवहारः । ननु स्तुतौ पणायतीति रूपं वक्ष्यमाणमनुपपन्नम् । पणधातोरनुदात्तेत्वेनात्मनेपदापत्तेः । न च आयप्रत्ययान्तस्यानुदात्तेत्वन्नेति शङ्क्यम् । पणधातौ श्रुतस्यानुदात्तेत्वस्य आनर्थक्यात्तदङ्गन्यायेन आयप्रत्ययान्ते अन्वयोपपत्तेरित्यत आह । स्तुताविति ॥ अनुबन्धस्य अनुदात्तात्मकस्य । इतः आर्धधातुकविषये कदाचिदायप्रत्ययविनिर्मुक्ते चरितार्थत्वादायप्रत्ययान्तादात्मनेपदन्नेत्यर्थः । एवञ्च तुल्यन्यायत्वादेकाच उपदेश इति निषेधोऽपि नेति सूचितम् । क्षमूष् सहन इति ॥ षिद्भिदादिभ्योऽडित्याद्यर्थं षित्वम् । ऊदित्वादिड्विकिल्प मत्वाऽऽह । चक्षमिषे । चक्षंस इति ॥ इडभावपक्षे अनुनासिकस्य क्विझलेरिति दीर्घस्तु न भवति । क्विसाहचर्येण तिड्भिन्नस्यैव झलादेस्तत्र ग्रहणात् । वहिमह्यो-