श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १३
← अध्यायः १२ | श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १३ [[लेखकः :|]] |
अध्यायः १४ → |
सबालवत्सवृन्दे ब्रह्मणापहृते श्रीकृष्णस्य
तत्तद्रूपेणाब्दं यथापूर्वं विहरणं ब्रह्मणो मोहभंगश्च -
( अनुष्टुप् )
श्रीशुक उवाच ।
साधु पृष्टं महाभाग त्वया भागवतोत्तम ।
यन्नूतनयसीशस्य श्रृण्वन्नपि कथां मुहुः ॥ १ ॥
( मिश्र )
सतामयं सारभृतां निसर्गो
यदर्थवाणी श्रुतिचेतसामपि ।
प्रतिक्षणं नव्यवदच्युतस्य यत्
स्त्रिया विटानामिव साधु वार्ता ॥ २ ॥
( अनुष्टुप् )
श्रृणुष्वावहितो राजन् अपि गुह्यं वदामि ते ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३ ॥
तथा अघवदनान्मृत्यो रक्षित्वा वत्सपालकान् ।
सरित्पुलिनमानीय भगवान् इदमब्रवीत् ॥ ४ ॥
( वंशस्था )
अहोऽतिरम्यं पुलिनं वयस्याः
स्वकेलिसम्पन् मृदुलाच्छबालुकम् ।
स्फुटत्सरोगन्ध हृतालिपत्रिक
ध्वनिप्रतिध्वानलसद् द्रुमाकुलम् ॥ ५ ॥
( अनुष्टुप् )
अत्र भोक्तव्यमस्माभिः दिवारूढं क्षुधार्दिताः ।
वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥ ६ ॥
तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले ।
मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७ ॥
( मिश्र )
कृष्णस्य विष्वक् पुरुराजिमण्डलैः
अभ्याननाः फुल्लदृशो व्रजार्भकाः ।
सहोपविष्टा विपिने विरेजुः
छदा यथाम्भोरुहकर्णिकायाः ॥ ८ ॥
( अनुष्टुप् )
केचित् पुष्पैर्दलैः केचित् पल्लवैः अङ्कुरैः फलैः ।
शिग्भिः त्वग्भिः दृषद्भिश्च बुभुजुः कृतभाजनाः ॥ ९ ॥
सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् ।
हसन्तो हासयन्तश्च अभ्यवजह्रुः सहेश्वराः ॥ १० ॥
( मंदाक्रांता )
बिभ्रद् वेणुं जठरपटयोः श्रृङ्गवेत्रे च कक्षे ।
वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।
तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलिः ॥ ११ ॥
( अनुष्टुप् )
भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु ।
वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥ १२ ॥
तान् दृष्ट्वा भयसंत्रस्न् ऊचे कृष्णोऽस्य भीभयम् ।
मित्राण्याशान्मा विरमत् इहानेष्ये वत्सकानहम् ॥ ॥
इत्युक्त्वाद्रिदरीकुञ्ज गह्वरेष्वात्मवत्सकान् ।
विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥ १४ ॥
( शार्दूलविक्रीडित )
अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः ।
द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् ।
नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा ।
दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ १५ ॥
( अनुष्टुप् )
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।
उभौ अपि वने कृष्णो विचिकाय समन्ततः ॥ १६ ॥
क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् ।
सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७ ॥
ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च ।
उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८ ॥
( शार्दूलविक्रीडित )
यावद् वत्सपवत्सकाल्पकवपुः
र्यावत् कराङ्घ्र्यादिकं ।
यावद् यष्टिविषाणवेणुदलशिग्
यावद् विभूषाम्बरम् ।
यावत् शीलगुणाभिधाकृतिवयो
यावद् विहारादिकं ।
सर्वं विष्णुमयं गिरोऽङ्गवदजः
सर्वस्वरूपो बभौ ॥ १९ ॥
( अनुष्टुप् )
स्वयमात्मात्मगोवत्सान प्रतिवार्यात्मवत्सपैः ।
क्रीडन् आत्मविहारैश्च सर्वात्मा प्राविशद् व्रजम् ॥ २० ॥
तत्तद् वत्सान् पृथङ्नीत्वा तत्तद्गोष्ठे निवेश्य सः ।
तत्तद् आत्माभवद् राजन् तत्तत्सद्म प्रविष्टवान् ॥ २१ ॥
( मिश्र )
तन्मातरो वेणुरवत्वरोत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।
स्नेहस्नुतस्तन्यपयःसुधासवं
मत्वा परं ब्रह्म सुतानपाययन् ॥ २२ ॥
ततो नृपोन्मर्दनमज्जलेपन
अलङ्कार रक्षा तिलकाशनादिभिः ।
संलालितः स्वाचरितैः प्रहर्षयन्
सायं गतो यामयमेन माधवः ॥ २३ ॥
गावस्ततो गोष्ठमुपेत्य सत्वरं
हुङ्कारघोषैः परिहूतसङ्गतान् ।
स्वकान् स्वकान् वत्सतरानपाययन्
मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥ २४ ॥
( अनुष्टुप् )
गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना ।
पुरोवदास्वपि हरेः तोकता मायया विना ॥ २५ ॥
व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् ।
शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६ ॥
इत्थं आत्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः ।
पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ २७ ॥
एकदा चारयन् वत्सान् सरामो वनमाविशत् ।
पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥ २८ ॥
ततो विदूराच्चरतो गावो वत्सानुपव्रजम् ।
गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥ २९ ॥
( मिश्र )
दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा
स गोव्रजोऽत्यात्मप दुर्गमार्गः ।
द्विपात्ककुद्ग्रीव उदास्यपुच्छो
अगाद्धुङ्कृतैरास्रुपया जवेन ॥ ३० ॥
( अनुष्टुप् )
समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् ।
गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥ ३१ ॥
गोपाः तद् रोधनायास मौघ्यलज्जोरुमन्युना ।
दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥ ३२ ॥
( मिश्र )
तदीक्षणोत्प्रेमरसाप्लुताशया
जातानुरागा गतमन्यवोऽर्भकान् ।
उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैरवापुः परमां मुदं ते ॥ ३३ ॥
( अनुष्टुप् )
ततः प्रवयसो गोपाः तोकाश्लेषसुनिर्वृताः ।
कृच्छ्रात् शनैरपगताः तदनुस्मृत्युदश्रवः ॥ ३४ ॥
व्रजस्य रामः प्रेमर्धेः वीक्ष्यौत्कण्ठ्यमनुक्षणम् ।
मुक्तस्तनेष्वपत्येषु अहेतुविद् अचिन्तयत् ॥ ३५ ॥
किमेतद् अद्भुतमिव वासुदेवेऽखिलात्मनि ।
व्रजस्य सात्मनस्तोकेषु अपूर्वं प्रेम वर्धते ॥ ३६ ॥
केयं वा कुत आयाता दैवी वा नार्युतासुरी ।
प्रायो मायास्तु मे भर्तुः नान्या मेऽपि विमोहिनी ॥ ३७ ॥
इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि ।
सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ ३८ ॥
नैते सुरेशा ऋषयो न चैते
( मिश्र )
त्वमेव भासीश भिदाश्रयेऽपि ।
सर्वं पृथक्त्वं निगमात् कथं वदे-
त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९ ॥
( अनुष्टुप् )
तावदेत्यात्मभूरात्म-मानेन त्रुट्यनेहसा ।
पुरोवदाब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥ ४० ॥
यावन्तो गोकुले बालाः सवत्साः सर्व एव हि ।
मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ॥ ४१ ॥
इत एतेऽत्र कुत्रत्या मन्माया मोहितेतरे ।
तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२ ॥
एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः ।
सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३ ॥
एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् ।
स्वयैव माययाजोऽपि स्वयमेव विमोहितः ॥ ४४ ॥
तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि ।
महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥ ४५ ॥
तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् ।
व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ ४६ ॥
चतुर्भुजाः शङ्खचक्र गदाराजीवपाणयः ।
किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥ ४७ ॥
श्रीवत्साङ्गददोरत्न कम्बुकङ्कणपाणयः ।
नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः ॥ ४८ ॥
आङ्घ्रिमस्तकमापूर्णाः तुलसीनवदामभिः ।
कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः ॥ ४९ ॥
चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः ।
स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्टृपालकाः ॥ ५० ॥
आत्मादिस्तम्बपर्यन्तैः मूर्तिमद्भिः चराचरैः ।
नृत्यगीताद्यनेकार्हैः पृथक् पृथक् उपासिताः ॥ ५१ ॥
अणिमाद्यैर्महिमभिः अजाद्याभिर्विभूतिभिः ।
चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः ॥ ५२ ॥
कालस्वभावसंस्कार कामकर्मगुणादिभिः ।
स्वमहिध्वस्तमहिभिः मूर्तिमद्भिः उपासिताः ॥ ५३ ॥
सत्यज्ञानानन्तानन्द मात्रैकरसमूर्तयः ।
अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् ॥ ५४ ॥
एवं सकृद् ददर्शाजः परब्रह्मात्मनोऽखिलान् ।
यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५ ॥
ततोऽतिकुतुकोद्वृत्त स्तिमितैकादशेन्द्रियः ।
तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६ ॥
( शिखरिणी )
इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके ।
परत्राजातोऽतन् निरसनमुखब्रह्मकमितौ ।
अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति
चछादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७ ॥
( अनुष्टुप् )
ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः ।
कृच्छ्राद् उन्मील्य वै दृष्टीः आचष्टेदं सहात्मना ॥ ५८ ॥
सपद्येवाभितः पश्यन् दिशोऽपश्यत् पुरःस्थितम् ।
वृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम् ॥ ५९ ॥
यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः ।
मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम् ॥ ६० ॥
( वसंततिलका )
तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं
ब्रह्माद्वयं परमनन्त-मगाधबोधम् ।
वत्सान् सखीनिव पुरा परितो विचिन्वद्
एकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१ ॥
दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य
पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य ।
स्पृष्ट्वा चतुर्मुकुट कोटिभिरङ्घ्रियुग्मं
नत्वा मुदश्रुसुजलैः अकृताभिषेकम् ॥ ६२ ॥
( अनुष्टुप् )
उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् ।
आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ ६३ ॥
( वंशस्था )
शनैरथोत्थाय विमृज्य लोचने
मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः ।
कृताञ्जलिः प्रश्रयवान्समाहितः
सवेपथुर्गद्गदयैलतेलया ॥ ६४ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः ॥ १३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥