सामग्री पर जाएँ

श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →


ब्रह्मणा कृता भगवतः स्तुतिर्वत्सवत्सपालानयनंच -

( वसंततिलका )
श्रीब्रह्मोवाच ।
 नौमीड्य तेऽभ्रवपुषे तडिदम्बराय
     गुञ्जावतंसपरिपिच्छलसन्मुखाय ।
 वन्यस्रजे कवलवेत्रविषाणवेणु
     लक्ष्मश्रिये मृदुपदे पशुपाङ्‌गजाय ॥ १ ॥
 अस्यापि देव वपुषो मदनुग्रहस्य
     स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
 नेशे महि त्ववसितुं मनसाऽऽन्तरेण
     साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २ ॥
 ज्ञाने प्रयासमुदपास्य नमन्त एव ।
     जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।
 स्थाने स्थिताः श्रुतिगतां तनुवाङ्‌मनोभिः ।
     ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३ ॥
( इंद्रवंशा )
श्रेयःसृतिं भक्तिमुदस्य ते विभो ।
     क्लिश्यन्ति ये केवलबोधलब्धये ।
 तेषामसौ क्लेशल एव शिष्यते ।
     नान्यद् यथा स्थूलतुषावघातिनाम् ॥ ४ ॥
 पुरेह भूमन् बहवोऽपि योगिनः
     त्वदर्पितेहा निजकर्मलब्धया ।
 विबुध्य भक्त्यैव कथोपनीतया
     प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५ ॥
 तथापि भूमन् महिमागुणस्य ते
     विबोद्धुमर्हत्यमलान्तरात्मभिः ।
 अविक्रियात् स्वानुभवादरूपतो
     ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६ ॥
( मिश्र )
गुणात्मनस्तेऽपि गुणान् विमातुं
     हितावतीर्णस्य क ईशिरेऽस्य ।
 कालेन यैर्वा विमिताः सुकल्पैः
     भूपांशवः खे मिहिका द्युभासः ॥ ७ ॥
 तत्तेऽनुकम्पां सुसमीक्षमाणो
     भुञ्जान एवात्मकृतं विपाकम् ।
 हृद्वाग्वपुर्भिर्विदधन्नमस्ते
     जीवेत यो मुक्तिपदे स दायभाक् ॥ ८ ॥
 पश्येश मेऽनार्यमनन्त आद्ये
     परात्मनि त्वय्यपि मायिमायिनि ।
 मायां वितत्येक्षितुमात्मवैभवं
     ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९ ॥
( वंशस्था )
अतः क्षमस्वाच्युत मे रजोभुवो
     ह्यजानतस्त्वत् पृथगीशमानिनः ।
 अजावलेपान्धतमोऽन्धचक्षुष
     एषोऽनुकम्प्यो मयि नाथवानिति ॥ १० ॥
( वसंततिलका )
क्वाहं तमोमहदहंखचराग्निवार्भू ।
     संवेष्टिताण्डघटसप्तवितस्तिकायः ।
 क्वेदृग्विधाविगणिताण्डपराणुचर्या ।
     वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११ ॥
( मिश्र )
उत्क्षेपणं गर्भगतस्य पादयोः
     किं कल्पते मातुरधोक्षजागसे ।
 किमस्तिनास्तिव्यपदेशभूषितं
     तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२ ॥
 जगत्त्रयान्तोदधिसम्प्लवोदे
     नारायणस्योदरनाभिनालात् ।
 विनिर्गतोऽजस्त्विति वाङ्‌ न वै मृषा
     किं त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३ ॥
 नारायणस्त्वं न हि सर्वदेहिनां
     आत्मास्यधीशाखिललोकसाक्षी ।
 नारायणोऽङ्‌गं नरभूजलायनात्
     तच्चापि सत्यं न तवैव माया ॥ १४ ॥
( इंद्रवज्रा )
तच्चेज्जलस्थं तव सज्जगद्वपुः
     किं मे न दृष्टं भगवंस्तदैव ।
 किं वा सुदृष्टं हृदि मे तदैव
     किं नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥
 अत्रैव मायाधमनावतारे
     ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य ।
 कृत्स्नस्य चान्तर्जठरे जनन्या
     मायात्वमेव प्रकटीकृतं ते ॥ १६ ॥
( अनुष्टुप् )
यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।
 तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना ॥ १७ ॥
( शार्दूलविक्रीडित )
अद्यैव त्वदृतेऽस्य किं मम न ते
     मायात्वमादर्शितम् ।
 एकोऽसि प्रथमं ततो व्रजसुहृद्
     वत्साः समस्ता अपि ।
 तावन्तोऽसि चतुर्भुजास्तदखिलैः
     साकं मयोपासिताः ।
 तावन्त्येव जगन्त्यभूस्तदमितं
     ब्रह्माद्वयं शिष्यते ॥ १८ ॥
( उपेंद्रवज्रा )
अजानतां त्वत्पदवीमनात्मन्
     यात्माऽऽत्मना भासि वितत्य मायाम् ।
 सृष्टाविवाहं जगतो विधान
     इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ १९ ॥
( मिश्र )
सुरेष्वृषिष्वीश तथैव नृष्वपि
     तिर्यक्षु यादःस्वपि तेऽजनस्य ।
 जन्मासतां दुर्मदनिग्रहाय
     प्रभो विधातः सदनुग्रहाय च ॥ २० ॥
 को वेत्ति भूमन् भगवन् परात्मन्
     योगेश्वरोतीर्भवत-स्त्रिलोक्याम् ।
 क्व वा कथं वा कति वा कदेति
     विस्तारयन् क्रीडसि योगमायाम् ॥ २१ ॥
( वसंततिलका )
तस्मादिदं जगदशेषमसत्स्वरूपं
     स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।
 त्वय्येव नित्यसुखबोधतनावनन्ते
     मायात उद्यदपि यत् सदिवावभाति ॥ २२ ॥
( मिश्र )
एकस्त्वमात्मा पुरुषः पुराणः
     सत्यः स्वयंज्योतिरनन्त आद्यः ।
 नित्योऽक्षरोऽजस्रसुखो निरञ्जनः
     पूर्णाद्वयो मुक्त उपाधितोऽमृतः ॥ २३ ॥
( इंद्रवंशा )
एवंविधं त्वां सकलात्मनामपि
     स्वात्मानमात्मात्मतया विचक्षते ।
 गुर्वर्कलब्धोपनिषत् सुचक्षुषा
     ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४ ॥
 आत्मानमेवात्मतयाविजानतां
     तेनैव जातं निखिलं प्रपञ्चितम् ।
 ज्ञानेन भूयोऽपि च तत्प्रलीयते
     रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५ ॥
( मिश्र )
अज्ञानसंज्ञौ भवबन्धमोक्षौ
     द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।
 अजस्रचित्यात्मनि केवले परे
     विचार्यमाणे तरणाविवाहनी ॥ २६ ॥
( अनुष्टुप् )
त्वामात्मानं परं मत्वा परमात्मानमेव च ।
 आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७ ॥
( मिश्र )
अन्तर्भवेऽनन्त भवन्तमेव
     ह्यतत्त्यजन्तो मृगयन्ति सन्तः ।
 असन्तमप्यन्त्यहिमन्तरेण
     सन्तं गुणं तं किमु यन्ति सन्तः ॥ २८ ॥
 अथापि ते देव पदाम्बुजद्वय
     प्रसादलेशानुगृहीत एव हि ।
 जानाति तत्त्वं भगवन् महिम्नो
     न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९ ॥
 तदस्तु मे नाथ स भूरिभागो
     भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
 येनाहमेकोऽपि भवज्जनानां
     भूत्वा निषेवे तव पादपल्लवम् ॥ ३० ॥
 अहोऽतिधन्या व्रजगोरमण्यः
     स्तन्यामृतं पीतमतीव ते मुदा ।
 यासां विभो वत्सतरात्मजात्मना
     यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ ३१ ॥
( अनुष्टुप् )
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
 यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२ ॥
( वसंततिलका )
एषां तु भाग्यमहिमाच्युत तावदास्ताम् ।
     एकादशैव हि वयं बत भूरिभागाः ।
 एतद्‌धृषीकचषकैरसकृत् पिबामः
     शर्वादयोऽङ्‌घ्र्युदजमध्वमृतासवं ते ॥ ३३ ॥
 तद्‍भूरिभाग्यमिह जन्म किमप्यटव्यां ।
     यद्‍गोकुलेऽपि कतमाङ्‌घ्रिरजोऽभिषेकम् ।
 यज्जीवितं तु निखिलं भगवान् मुकुन्दः
     त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ ३४ ॥
( शार्दूलविक्रीडित )
एषां घोषनिवासिनामुत भवान्
     किं देव रातेति नः
 चेतो विश्वफलात् फलं त्वदपरं
     कुत्राप्ययन्मुह्यति ।
 सद्वेषादिव पूतनापि सकुला
     त्वामेव देवापिता
 यद्धामार्थसुहृत् प्रियात्मतनय
     प्राणाशयास्त्वत्कृते ॥ ३५ ॥
( अनुष्टुप् )
तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् ।
 तावन्मोहोऽङ्‌घ्रिनिगडो यावत् कृष्ण न ते जनाः ॥ ३६ ॥
 प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
 प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो ॥ ३७ ॥
 जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
 मनसो वपुषो वाचो वैभवं तव गोचरः ॥ ३८ ॥
 अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् ।
 त्वमेव जगतां नाथो जगद् एतत् तवार्पितम् ॥ ३९ ॥
( वसंततिलका )
श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्
     क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् ।
 उद्धर्मशार्वरहर क्षितिराक्षसध्रुग्
     आकल्पमार्कमर्हन् भगवन् नमस्ते ॥ ४० ॥
 श्रीशुक उवाच ।
( अनुष्टुप् )
इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः ।
 नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ ४१ ॥
 ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् ।
 वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२ ॥
 एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तराऽऽत्मनः ।
 कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ ४३ ॥
 किं किं न विस्मरन्तीह मायामोहितचेतसः ।
 यन्मोहितं जगत्सर्वं अभीक्ष्णं विस्मृतात्मकम् ॥ ४४ ॥
 ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
 नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ ४५ ॥
 ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः ।
 दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ ४६ ॥
( वसंततिलका )
बर्हप्रसून नवधातुविचित्रिताङ्‌गः
     प्रोद्दामवेणुदलशृङ्‌गरवोत्सवाढ्यः ।
 वत्सान् गृणन्ननुगगीत पवित्रकीर्तिः
     गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ॥ ४७ ॥
( अनुष्टुप् )
अद्यानेन महाव्यालो यशोदानन्दसूनुना ।
 हतोऽविता वयं चास्माद् इति बाला व्रजे जगुः ॥ ४८ ॥
 श्रीराजोवाच ।
 ब्रह्मन् परोद्‍भवे कृष्णे इयान्प्रेमा कथं भवेत् ।
 योऽभूतपूर्वस्तोकेषु स्वोद्‍भवेष्वपि कथ्यताम् ॥ ४९ ॥
 श्रीशुक उवाच ।
 सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः ।
 इतरेऽपत्यवित्ताद्याः तद्वल्लभतयैव हि ॥ ५० ॥
 तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् ।
 न तथा ममतालम्बि पुत्रवित्तगृहादिषु ॥ ५१ ॥
 देहात्मवादिनां पुंसां अपि राजन्यसत्तम ।
 यथा देहः प्रियतमः तथा न ह्यनु ये च तम् ॥ ५२ ॥
 देहोऽपि ममताभाक् चेत् तर्ह्यसौ नात्मवत् प्रियः ।
 यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३ ॥
 तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् ।
 तदर्थमेव सकलं जगद् एतत् चराचरम् ॥ ५४ ॥
 कृष्णमेनमवेहि त्वं आत्मानं अखिलात्मनाम् ।
 जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५ ॥
 वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च ।
 भगवद् रूपमखिलं नान्यद् वस्त्विह किञ्चन ॥ ५६ ॥
 सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः ।
 तस्यापि भगवान्कृष्णः किं अतद्वस्तु रूप्यताम् ॥ ५७ ॥
( मिश्र )
समाश्रिता ये पदपल्लवप्लवं
     महत्पदं पुण्ययशो मुरारेः ।
 भवाम्बुधिर्वत्सपदं परं पदं
     पदं पदं यद् विपदां न तेषाम् ॥ ५८ ॥
( अनुष्टुप् )
एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया ।
 यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ ५९ ॥
( मिश्र )
एतत्सुहृद्‌भिश्चरितं मुरारेः
     अघार्दनं शाद्वलजेमनं च ।
 व्यक्तेतरद् रूपमजोर्वभिष्टवं
     शृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥ ६० ॥
( अनुष्टुप् )
एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।
 निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ६१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे चतुर्दशोऽध्यायः ॥ १४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥