श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →


अघासुरवधः -

( मिश्र )
श्रीशुक उवाच ।
 क्वचिद्वनाशाय मनो दधद् व्रजात्
     प्रातः समुत्थाय वयस्यवत्सपान् ।
 प्रबोधयन् श्रृंगरवेण चारुणा
     विनिर्गतो वत्सपुरःसरो हरिः ॥ १ ॥
( इंद्रवंशा )
तेनैव साकं पृथुकाः सहस्रशः
     स्निग्धाः सुशिग्वेत्रविषाणवेणवः ।
 स्वान् स्वान् सहस्रो परिसङ्‌ख्ययान्वितान्
     वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ २ ॥
( अनुष्टुप् )
कृष्णवत्सैः असङ्‌ख्यातैः यूथीकृत्य स्ववत्सकान् ।
 चारयन्तोऽर्भलीलाभिः विजह्रुः तत्र तत्र ह ॥ ३ ॥
 फलप्रबालस्तवक सुमनःपिच्छधातुभिः ।
 काचगुञ्जामणिस्वर्ण-भूषिता अप्यभूषयन् ॥ ४ ॥
 मुष्णन्तोऽन्योन्य शिक्यादीन् न्ज्ञातानाराच्च चिक्षिपुः ।
 तत्रत्याश्च पुनर्दूरात् हसन्तश्च पुनर्ददुः ॥ ५ ॥
 यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् ।
 अहं पूर्वं अहं पूर्वं इति संस्पृश्य रेमिरे ॥ ६ ॥
 केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्‌गाणि केचन ।
 केचिद् भृंङ्‌गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ ७ ॥
 विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः ।
 बकैः उपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥ ८ ॥
 विकर्षन्तः कीशबालान् आरोहन्तश्च तैर्द्रुमान् ।
 विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥ ९ ॥
 साकं भेकैर्विलङ्‌घन्तः सरित् प्रस्रवसम्प्लुताः ।
 विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥ १० ॥
( इंद्रवज्रा )
इत्थं सतां ब्रह्मसुखानुभूत्या
     दास्यं गतानां परदैवतेन ।
 मायाश्रितानां नरदारकेण
     साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ ११ ॥
( मिश्र )
यत्पादपांसुः बहुजन्मकृच्छ्रतो
     धृतात्मभिः योगिभिरप्यलभ्यः ।
 स एव यद्‌दृग्विषयः स्वयं स्थितः
     किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ १२ ॥
 अथ अघनामाभ्यपतन् महासुरः
     तेषां सुखक्रीडनवीक्षणाक्षमः ।
 नित्यं यदन्तर्निजजीवितेप्सुभिः
     पीतामृतैः अप्यमरैः प्रतीक्ष्यते ॥ १३ ॥
 दृष्ट्वार्भकान् कृष्णमुखान् अघासुरः ।
     कंसानुशिष्टः स बकीबकानुजः ।
 अयं तु मे सोदरनाशकृत्तयोरः
     द्वयोर्ममैनं सबलं हनिष्ये ॥ १४ ॥
 एते यदा मत्सुहृदोस्तिलापः
     कृतास्तदा नष्टसमा व्रजौकसः ।
 प्राणे गते वर्ष्मसु का नु चिन्ता
     प्रजासवः प्राणभृतो हि ये ते ॥ १५ ॥
( वंशस्था )
इति व्यवस्याजगरं बृहद् वपुः
     स योजनायाम महाद्रिपीवरम् ।
 धृत्वाद्‍भुतं व्यात्तगुहाननं तदा
     पथि व्यशेत ग्रसनाशया खलः ॥ १६ ॥
( मिश्र )
धराधरोष्ठो जलदोत्तरोष्ठो
     दर्याननान्तो गिरिशृङ्‌गदंष्ट्रः ।
 ध्वान्तान्तरास्यो वितताध्वजिह्वः
     परुषानिलश्वासदवेक्षणोष्णः ॥ १७ ॥
( अनुष्टुप् )
दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् ।
 व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८ ॥
 अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् ।
 अस्मत्सङ्‌ग्रसनव्यात्त व्यालतुण्डायते न वा ॥ १९ ॥
 सत्यमर्ककरारक्तं उत्तराहनुवद्‍घनम् ।
 अधराहनुवद् रोधः तत् प्रतिच्छाययारुणम् ॥ २० ॥
 प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे ।
 तुंगशृंगालयोऽप्येताः तद् दंष्ट्राभिश्च पश्यत ॥ २१ ॥
 आस्तृतायाम मार्गोऽयं रसनां प्रतिगर्जति ।
 एषां अन्तर्गतं ध्वान्तं एतदप्यन्तः आननम् ॥ २२ ॥
 दावोष्णखरवातोऽयं श्वासवद्‍भाति पश्यत ।
 तद् दग्धसत्त्वदुर्गन्धोऽपि अन्तरामिषगन्धवत् ॥ २३ ॥
( मिश्र )
अस्मान्किमत्र ग्रसिता निविष्टा-
     नयं तथा चेद् बकवद् विनङ्‌क्ष्यति ।
 क्षणादनेनेति बकार्युशन्मुखं
     वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥ २४ ॥
 इत्थं मिथोऽतथ्यं अतज्ज्ञभाषितं
     श्रुत्वा विचिन्त्येत्यमृषा मृषायते ।
 रक्षो विदित्वाखिल-भूतहृत्स्थितः
     स्वानां निरोद्धुं भगवान् मनो दधे ॥ २५ ॥
 तावत् प्रविष्टास्तु असुरोदरान्तरं
     परं न गीर्णाः शिशवः सवत्साः ।
 प्रतीक्षमाणेन बकारिवेशनं
     हतस्वकान्तस्मरणेन रक्षसा ॥ २६ ॥
 तान् वीक्ष्य कृष्णः सकलाभयप्रदो
     ह्यनन्यनाथान् स्वकरादवच्युतान् ।
 दीनांश्च मृत्योर्जठराग्निघासान्
     घृणार्दितो दिष्टकृतेन विस्मितः ॥ २७ ॥
 कृत्यं किमत्रास्य खलस्य जीवनं
     न वा अमीषां च सतां विहिंसनम् ।
 द्वयं कथं स्यादिति संविचिन्त्य तत्
     ज्ञात्वाविशत् तुण्डमशेषदृग्घरिः ॥ २८ ॥
( अनुष्टुप् )
तदा घनच्छदा देवा भयाद् हाहेति चुक्रुशुः ।
 जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥ २९ ॥
 तच्छ्रुत्वा भगवान् कृष्णस्तु अव्ययः सार्भवत्सकम् ।
 चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ ३० ॥
( मिश्र )
ततोऽतिकायस्य निरुद्धमार्गिणो
     ह्युद्‍गीर्णदृष्टेः भ्रमतस्त्वितस्ततः ।
 पूर्णोऽन्तरंगे पवनो निरुद्धो
     मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥ ३१ ॥
 तेनैव सर्वेषु बहिर्गतेषु
     प्राणेषु वत्सान् सुहृदः परेतान् ।
 दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनः
     वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ ३२ ॥
 पीनाहिभोगोत्थितमद्‍भुतं महत्
     ज्योतिः स्वधाम्ना ज्वलयद् दिशो दश ।
 प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं
     विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३ ॥
 ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं
     पुष्पैः सुगा अप्सरसश्च नर्तनैः ।
 गीतैः सुरा वाद्यधराश्च वाद्यकैः
     स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥ ३४ ॥
 तदद्‍भुतस्तोत्रसुवाद्यगीतिका
     जयादिनैकोत्सव मङ्‌गलस्वनान् ।
 श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद्
     दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५ ॥
( अनुष्टुप् )
राजन् आजगरं चर्म शुष्कं वृन्दावनेऽद्‍भुतम् ।
 व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६ ॥
 एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् ।
 मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥ ३७ ॥
( मिश्र )
नैतद् विचित्रं मनुजार्भमायिनः
     परावराणां परमस्य वेधसः ।
 अघोऽपि यत्स्पर्शनधौतपातकः
     प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८ ॥
( वंशस्था )
सकृद्यदङ्‌गप्रतिमान्तराहिता
     मनोमयी भागवतीं ददौ गतिम् ।
 स एव नित्यात्मसुखानुभूत्यभि
     व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ ३९ ॥
 श्रीसूत उवाच ।
( इंद्रवज्रा )
इत्थं द्विजा यादवदेवदत्तः
     श्रुत्वा स्वरातुश्चरितं विचित्रम् ।
 पप्रच्छ भूयोऽपि तदेव पुण्यं
     वैयासकिं यन्निगृहीतचेताः ॥ ४० ॥
 श्रीराजोवाच ।
( अनुष्टुप् )
ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् ।
 यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥ ४१ ॥
 तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो ।
 नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२ ॥
 वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः ।
 यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥ ४३ ॥
 श्रीसूत उवाच ।
( इंद्रवंशा )
इत्थं स्म पृष्टः स तु बादरायणिः
     तत्स्मारितानन्तहृताखिलेन्द्रियः ।
 कृच्छ्रात् पुनर्लब्धबहिर्दृशिः शनैः
     प्रत्याह तं भागवतोत्तमोत्तम ॥ ४४ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः ॥ १२ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥