वादनक्षत्रमाला । १७७ माना: अर्थयमाना: सन्त: इन्द्रमुपसेदु:, किं नाथमाना इत्या काङ्कितम् उत्तरार्धेन उच्यते– ध्वान्तमविद्यावरणम् अपो णुहि अपावृणु, चक्षुः * मनोऽस्य दैवं चक्षुः' इति श्रुतिप्र सिद्धं चिच्छक्तिरूपं चक्षुः इदानीं संसारदशायां संकुचितं पूर्धि पूरय विकसितं कुरु, निधयेव पाशेनेव विषयजालेन एतरयत्राह्मण एव याख्यात : ' मुमुग्ध्यस्मान्नधन्यव बद्धा. निति पाशा वै निधाः मुमुग्ध्यस्मान् पाशादिव बद्धान् इत्येव भिन्नब्रह्मपरत्वाङ्गीकारे * त्वामेव विजानीयाम्' इति वाक्य वैरूप्यापतिर्दोष:, इन्द्रस्य तेजोविशेषेण दृश्यमानेन इन्द्रः स्वा भिन्नब्रह्मोपासकः इति निश्चित्य तदभिप्रायानुसारेण ब्रह्मवि षयतयैव “ त्वाम्' इति प्रयोगोपपत्त: । । ब्रह्मविद इव ते मुखं भाति' इत्यादिश्रुत्यन्तरेषु ब्रह्मविदि तेजोविशेषस्य प्रसिद्ध त्वात् । एवम् * अहं ब्रह्मास्मि' इति बृहदारण्यकवाक्यमपि स्वा यद्रह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्त' इति उपक्रमे स्वाभिप्रब्रह्मोपासनाजन्यसाक्षात्कारफलस्य सवत्पभावस्य कीर्तनात् । स हि तस्यैव फलम्, 'तदपश्यत्तदभवत्प्रजासु’ इति
पृष्ठम्:वादनक्षत्रमाला.djvu/१८७
दिखावट