धीरेति-धीरा पण्डिता। धैर्यवती वा। धियमद्वैतबुद्धि राति ददातीतिवा।
ईश्वरानुग्रहादेव पुंसामद्वैतवासने' ति स्मृतेः । धीप्रदा इरा दशमीतिथिर्यस्यां वा ।
धीरसमवितेति-धीरैः पण्डितैः समाचिंता। ‘तं धीरासः कवय उन्नयन्ती'ति
श्रुतेः । अतएव कल्यागचरग: स्वाय घय प्रकन्टाकृतम् ।
पातय वा पाताले स्थापय वा निखिललोकसाम्राज्ये । |
चंतन्याघ्र्यसमाराध्ा चैतन्यकुसुमप्रिया । |
पूजायोग्यं जलादि तेन सम्यगाराध्या । निराधाराख्यायाः पूजायाश्चिदभेदभावना
रूपत्वात् 'ज्ञानमध्यं 'मिति भावनोपनिषष्ठ.तेः । उक्तं च स्कान्दे
स्वानुभूत्या स्वयं साक्षात्स्वात्मभतां महेश्वरीम् । |
भूल्यंऽप्यध्य बिद्याद्रुमूलयो'रिति विश्व । अधं साधुरित्यर्थे यत्प्रत्ययः । चातु
वंण्पदेराकृतिगणत्वाद्वा स्वार्थे हय । आघ्र्यइत्येव छेदः । चैतन्यवाचकोऽध्यों
विा स्त्रोदेवत्यो भनरिति वा । तेन भवनेश्वरीमन्त्रेण समाराध्या । 'स्त्रीदेवतास्तु
विद्याः स्युर्मन्त्राः पुंदेवता मता' इति वचनात् । सूतसंहितायाम्---
जपित्वा दशसाहस्र मन्त्रं चैतन्यवाचकम् । |
चेतनैव चैतन्यं संविदूपो रसः । 'चेतना संविदि प्रोक्ता वाच्यवत्प्राणिनि स्मते' ति
विश्वः । स एवाध्यं: पूजाद्रव्यं विशेषाघ्र्यपात्रे परिपूरणेन संस्कारैः पूजयोग्यता
मापादित इति यावत् । तेन सम्यक्तर्पणादिनाराध्या । 'संविदासवयोर्मध्ये संविदेव
गरीयसी' ति रुब्रयामसात् ।
चैतन्येति-तान्त्रिकै; कुण्डगोलोद्भवपदेन व्यवह्रियमाणः पाञ्चमिको रसो
वा चैतन्यं प्राणिसंभवत्वात् । चैतन्यं चिदेव कुसुमं महाफलप्रसूतित्वात्, 'जडानां
चैतन्यस्तब मकरन्दरुतिझरी'त्यादौ कुसुमत्वेन रूपकस्य कविसंप्रदायसिद्धत्वात्,
तत्प्रियं यस्याः । उपलक्षणमेतत्पुष्पाष्टकस्य ।