सप्तदशः । एकविंशः । डप्रत्यये तिलोपः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः।
१७२५ । पङ्किविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् । (५-१-५९)
एते रूढिशब्दा निपात्यन्ते ।
१७२६ । पञ्चद्दशतौ वर्गे वा । (५-१-६०)
पञ्चावृत्तयः परिमाणमस्येति विग्रहः । स्तोमे डविधिरिति । तदस्य परिमाणमित्यर्थे सङ्ख्यावाचिन उपसङ्ख्यातव्य इति शेषः। सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः । मनुष्यादिसमूहे तु स्तोमशब्दो लाक्षणिक इति तदाशयः । तदाह । पञ्चदशा मन्त्रा इति ।। पञ्चदशस्तोम इति। पञ्चदशत् शब्दात् डप्रत्यये ‘टेः’ इति टिलोपः । सामाधारभूतपञ्चदशमन्त्रसमूह इत्यर्थः । ननु डित्त्वाभावेऽपि ‘नस्तद्धिते’ इत्येव टिलोपसिद्धेर्डित्त्वं व्यर्थमित्यत आह । एकविंश इति । एकविंशतिर्मन्त्राः परिमाणमस्य समूहस्येति विग्रहः । डप्रत्यये इति॥ 'तिविशतेर्डिति' इति टिलोपः । मीमांसकास्तु पृष्ठरथन्तरादिशब्दवाच्या प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तोमः, स एव डप्रत्ययार्थः । प्रगीतपञ्च दशमन्त्रपरिमाणकः स्तोम इत्यर्थः । पञ्चदशत्वसङ्ख्यात्मकपरिमाणं स्तुतौ मन्त्रद्वारा बोध्यम् । एवञ्च पञ्चदशेन स्तुवते इत्यादौ धात्वर्थभूतस्तुतिसामानाधिकरण्यम्पञ्चदशादिशब्दानामुपपद्यते इत्याहुः । तन्मतमवलम्ब्य आह । सोमयागेष्वित्यादि॥ पङ्क्तिविंशति ॥ रूढिशब्दा निपात्यन्ते इति ॥ तदस्य परिमाणमित्यर्थे इति शेष । पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात् तिप्रत्ययः प्रकृतेष्टिलोप , चकारस्य कुत्वम्, अनुस्वारपरसवर्णौ, पङ्क्तिरिति रूपम् । “पञ्चाक्षरा पञ्चपदा पङ्क्ति” इति छन्दःशास्त्रे । दशानां वर्गः दशन् । ‘पञ्चद्दशतौ वर्गे च इति वक्ष्यते । द्वौ दशतौ परिमाणमस्य सङ्घस्य विशतिः । शतिच्प्रत्ययः प्रकृतेर्विन्भावः, अनुस्वारश्च । अत्र सङ्घग्रहणमनुवर्तते । तथाच गवां विंशतिरिति भवति । सङ्घसङ्घिनोस्ता दात्म्यविवक्षायां तु विशतिर्गाव इति भवति । स्वभावादेकवचनं स्त्रीत्वञ्च । एवं त्रिंशदादावपि । “विंशत्याद्यास्सदैकत्वे सङ्ख्यास्सङ्ख्येयसङ्ख्ययोः”, “तासु चानवतेः स्त्रियः” इति चामरः । त्रयः दशतः परिमाणमस्य सङ्घस्य त्रिशत् । शत्प्रत्ययः, प्रकृतेः त्रिन्भावश्च । चत्वारो दशतः परिमाणमस्य सङ्घस्यचत्वारिंशत्, शत्प्रत्ययः । प्रकृतेः चत्वारिम्भावश्च । पञ्च दशतः परिमाणमस्य सङ्घस्य पञ्चाशत् । शत्प्रत्ययः प्रकृतेः पश्चादेशः । षड् दशतः परिमाणमस्य सङ्घस्य षष्टिः । तिप्रत्ययः, प्रकृतेः षष्, जश्त्वाभावश्च । सप्त दशतः परिमाणमस्य सङ्घस्य सप्ततिः तिप्रत्ययः । 'न लोपः’ इति नकारलोपः । अष्टौ दशतः परिमाणमस्य सङ्घस्य अशीतिः । तिप्रत्ययः प्रकृते अशी इत्यादेशः । नव दशतः परिमाणमस्य सङ्घस्य नवतिः, तिप्रत्ययः, नलोपः । दश दशतः परिमाणमस्य सङघस्य शतम्, तप्रत्ययः प्रकृतेः शादेशश्च । एतत्सर्वं भाष्ये स्पष्टम्। “एतान्यव्युत्पन्न प्रातिपदिकानि” इति भाष्ये निष्कर्षः । पञ्चद्दशतौ ॥ पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे
P 105