पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३४
[आर्हीय
सिद्धान्तकौमुदीसहिता

 पश्च परिमाणमस्य पञ्चद्वर्ग: ! दशत् । पक्षे पञ्चकः । दशकः ।

१७२७ । त्रिंशच्चत्वारिंशतो ब्राह्मणे संज्ञायां डण् । (५-१-६२)

 त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ।

१७२८ । तदर्हति । (५-१-६३)

 लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्त्रमर्हति श्वैतच्छत्त्रिकः।

१७२९ । छेदादिभ्यो नित्यम् । (५-१-६४)

 नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढ त्वात् । “विराग विरङ्गं च' (ग सू ९९) । विरागं नित्यमर्हति । वैरागिक: वैरङ्गिकः।

१७३० । शीर्षच्छेदाद्यच्च । (५-१-६५)

 शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः-शैर्षच्छेदिकः । यट्ठकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते ।


एतौ निपात्यते इत्यर्थः । पञ्चद्वर्ग इति ॥ पञ्च परिमाणमस्येत्यर्थे पञ्चन्शब्दात् डतिप्रत्ययः । तत्र इकार उञ्चारणार्थः । ‘टेः’ इति टिलोपः । दशदिति ॥ दश परिमाणमस्य वर्गस्येति विग्रहः । डति डित्त्वाट्टिलोपः । एतदर्थमेव डित्त्वम् । पक्षे इति ।। डत्यभावपक्षे ‘सङ्ख्यायाः इति कन्नित्यर्थः । त्रिंशञ्चत्वारिंशतोः ॥ तदस्य परिमाणमित्यर्थे परिमाणिनि ब्राह्मणे वाच्ये त्रिंशच्चत्वारिंशद्भयां डण् स्यादित्यर्थः । ब्राह्मणं वेदेषु मन्त्रव्यतिरिक्तो भागः । त्रैंशानीति ॥ डित्त्वात् ‘टेः’ इति टिलोपः । तदर्हति ॥ अर्हतीत्यस्य योग्यो भवतीत्यर्थे अकर्मकत्वात्तदिति द्वितीया न स्यात् । इष्यते तु द्वितीयान्तादेव प्रत्ययः । तत्राह । लब्धुमिति । श्वैतच्छत्त्रिक इति ॥ आर्हीयष्ठक् । छेदादिभ्यो नित्यम् ॥ आभीक्ष्ण्यमिति । पौनःपुन्यमित्यर्थः । तन्नित्यमर्हतीत्यर्थे द्वितीयान्तेभ्यः छेदादिभ्यो यथाविहितम्प्रत्ययः स्यादित्यर्थः । छैदिको वेतस इति ॥ ‘आर्हात्' इति ठक् । 'तदर्हति' इत्येव सिद्धे आभीक्ष्ण्य एवेति नियमार्थमिदं सूत्रम् । वस्तुतस्तु नित्यमिति नाभीक्ष्ण्यार्थकम्प्रत्ययार्थकोटिप्रविष्टम्, किन्तु अपाक्षिकत्वार्थकम् ।

'समर्थानाम्प्रथमाद्वा’ इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमभिप्रेत्य विग्रहवाक्यस्यापि

लोके दर्शनान्नित्यग्रहणन्न कर्तव्यमित्युक्तम् । एवञ्च छेदादिभ्यः पाक्षिकप्रत्ययस्य 'तदर्हति' इत्येव सिद्धत्वात् सूत्रमेवेदं नारब्धव्यमिति फलति । विराग विरङ्गञ्चेति॥ गणसूत्रमिदम् । उक्त्तेऽर्थे विरागशब्दो विरङ्गादेशं लभते इत्यर्थः । चादार्हीयष्ठक् । शीर्षच्छेदाद्यच्च ॥ चादार्हीयष्ठक् । ननु ‘शीर्षञ्छन्दसि' इति छन्दस्येव शिरसः शीर्षादेशविधानात् कथमिह