१७३१ । दण्डादिभ्यो यत् । (५-१-६६)
एभ्यो यत्स्यात् । दण्डमर्हति दण्ड्यः । अर्घ्यः । वध्यः ।
१७३२ । पात्राद्धंश्च । (५-१-६८)
चाद्यत् तदर्हतीत्यर्थे । पात्रियः - पात्र्यः ।
१७३३ । कडङ्करदक्षिणाच्छ च । (५-१-६९)
चाद्यत् । कडं करोतीति विग्रहेऽत एव निपातनात्खच् । कडङ्करं माषमुद्गादिकाष्ठमर्हतीति कडङ्करीयो गौः । कडङ्कर्यः । दक्षिणामर्हतीति दक्षिणीयः -
दक्षिण्यः ।
१७३४ । स्थालीबिलात् । (५-१-७०)
स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः । पाकयोग्या इत्यर्थः।
१७३५ । यज्ञर्त्विग्भ्यां घखञौ । (५-१-७१)
यथासङ्ख्यं स्तः । यज्ञमृत्विजं वार्हति यज्ञियः, आर्त्विजीनो यजमानः । ‘यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसङ्ख्यानम्' (वा ३०५२) । यज्ञियो देशः । आर्त्विजीनः ऋत्विक् ॥ इति आर्हीयाणां ठगादीनां द्वादशानां पूर्णोऽवधिः ॥
शीर्षादेश इत्यत आह । यट्ठकोरिति ।। दण्डादिभ्यः ॥ यदित्यनुवर्तते । तदाह । यत्स्यादिति ॥ 'दण्डादिभ्यो यः’ इति त्वपपाठः । ‘अचो यत्' इति सूत्रभाष्ये तथैव दर्शनात् । अर्घ्यः इति॥ मूल्यं पूजाविधिं वार्हतीत्यर्थः । "मूल्ये पूजाविधावर्घः" इत्यमरः । वध्य इति ॥ वधमर्हतीत्यर्थः । पात्रात् घंश्च ॥ पात्रियः-पात्र्य इति ॥ पात्रमर्हतीत्यर्थः । कडङ्करदक्षिणाच्छ च ॥ ‘कड मदे' कडनं कडः मदः ‘घञर्थे कविधानम्’ इति कः । खजिति ॥ तथाच 'खित्यनव्ययस्य' इति मुमिति भावः । कडङ्करञ्च दक्षिणा चेति समाहारद्वन्द्वात्पञ्चमी । स्थालीबिलात् ॥ छयतावनुवर्तेते, तदर्हतीति च। यज्ञर्त्विग्भ्यां घखञौ ॥ तदर्हतीत्येव । यज्ञम् ऋत्विजं वेति । यज्ञमर्हतीति यज्ञियः । ऋत्विजमर्हतीत्यार्त्विजीन इत्यन्वयः । तत्कर्मेति ॥ यज्ञकर्मार्हतीत्यर्थे यज्ञशब्दात् ऋत्विक्कर्मार्हतीत्यर्थे ऋत्विक्छब्दाच्च यथासङ्ख्यङ्घखञोरुपसङ्ख्यानमित्यर्थः । यज्ञियो देश इति ॥ यज्ञानुष्ठानमर्हतीत्यर्थः । आर्त्विजीनो ऋत्विगिति॥ ऋत्विकर्तव्यङ्कर्मार्हतीत्यर्थः । यद्यपि यज्ञर्त्विक्छब्दयोस्तत्कर्मणि लक्षणया सिद्ध्यति । तथाप्यत्र प्रकरणे मुख्यार्थेभ्य एव प्रत्यय इति ज्ञापनार्थमिदम् । ठगादीनां द्वादशानामिति ॥ ‘प्राग्वतेः’ इत्यारभ्य ‘तेन क्रीतम्’ इत्यतः प्राक् त्रयोदश प्रत्ययाः अनुक्रान्ताः । तत्र ‘प्राग्वतेः’ इति ठञं विना आर्हादित्यादिविहितानाण्ठगादीनान्द्वादशानां विधिः पूर्णः इत्यर्थः ।
इति तद्धिते प्राग्वतीये आर्हीयाणां ठगादीनां द्वादशानां पूर्णोऽवधिः ।