१७०८ । तस्येश्वरः । (५-१-४२)
१७०९ । तत्र विदित इति च । (५-१-४३)
सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः | पार्थिवः|
१७१० । लोकसर्वलोकाट्ठञ् । (५-१-४४)
तत्र विदित इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः |
१७११ । तस्य वापः । (५-१-४५)
उप्यतेऽस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् ।
खारिकम् |
१७१२ । पात्रात्ष्ठन् । (५-१-४६)
पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ।
१७१३ । तदस्मिन्वृध्द्यायलाभशुल्कोपदा दीयते । (५-१-४७)
वृद्धिर्दीयते इत्यादि क्रमेण प्रत्येकं सम्बन्धादेकवचनम् । पञ्च अस्मिन्
ठञोऽपवादः अण् । पार्थिव इति ॥ पृथिव्याः निमित्त संयोगः उत्पातो वेत्यर्थः । स्त्रियाम्पा- र्थिवी । सार्वभौमिकशब्दे कथमुभयपदवृद्धिरित्यत आह । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते इति ॥ तथाच 'अनुशतिकादीनाञ्च' इत्युभयपदवृद्धिरिति भावः। तस्येश्वरः ॥ तत्र विदित इति च ॥ सूत्रद्वयमिदम् । सर्वभूमिपृथिवीभ्यामित्यनुवर्तते । तस्य निमित्तं संयोगो- त्पाताविति तु निवृत्तम् । पुनस्तस्येत्युक्तेः । तस्येश्वर इत्यर्थे षष्ठ्यन्तात्तत्र विदित इत्यर्थे तु सप्तम्यन्तात् अणञो स्त इत्यर्थः । योगविभागो यथासंख्यनिवृत्त्यर्थः । उत्तरसूत्रे तत्र विदितः इत्यस्यैवानुवृत्त्यर्थश्च । लोकसर्व ॥ तत्र विदित इत्यर्थे इति ॥ योगविभागसामर्थ्यात् तस्येश्वर इति नानुवर्तत इति भावः । लौकिकः इति ॥ लोकेषु विदित इत्यर्थः । सर्वभूमि- शब्दे विशेषमाह । अनुशतिकादित्वादिति ॥ तस्य वापः ॥ अस्मिन्नर्थे षष्ठ्यन्ता- द्यथाविहितं ठञादयः स्युरित्यर्थः। प्रास्थिकमिति ॥ प्रस्थपरिमितबीजवापयोग्यं क्षेत्रमित्यर्थः । 'आर्हात्' इति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । द्रौणिकमिति ॥ निष्कादित्वा. ट्ठक् । खारीकमिति ॥ खार्याम् ईकन् । द्रोणस्य खार्याश्च वाप इत्यर्थः । पात्रात् ष्ठन् । तस्य वाप इत्येव । पात्रिकमिति ॥ पात्रस्य वाप इत्यर्थः । षित्त्वं डीषर्थमित्याह । पात्रिकीति ॥ तदस्मिन् ॥ वृद्धि, आय, शुल्क, उपदा, एषां द्वन्द्वात्प्रथमाबहुवचनम् । ननु तर्हि दीयत इति कथमेकवचनमित्यत आह । वृद्धिर्दीयते इत्यादि ॥ क्रमेणेति ॥ एवञ्च तदस्मिन्वृद्धिर्दीयते, तदस्मिन् आयो दीयते, तदस्मिन् शुल्को दीयते, तदस्मिन्नुपदा