पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८२९
बालमनोरमा ।

वृद्धिः आयः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिकः-शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आय: । विक्रेत्रा मूल्यादधिकग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा । 'चतुर्थ्यर्थ उपसङ्ख्यानम्’ (वा ३०३६) । पञ्च अस्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । ‘सममब्राह्मणे दानम्’ इतिवदधिकरणत्वविवक्षा वा ।

१७१४ । पूरणार्धाट्ठन् । (५-१-४८)

यथाक्रमं ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः । तृतीयिकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ।

१७१५ । भागाद्यच्च । (५-१-४९)

चाट्ठन्। भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते भाग्यं-भागिकं शतम् । भाग्या-भागिका विंशतिः !

१७१६ । तद्धरति वहत्यावहति भाराद्वंशादिभ्यः । (५-१-५०)


दीयते, इत्यर्थेषु प्रथमान्ताद्यथाविहितं ठञादयः स्युरित्यर्थ । पञ्चक इति । ‘सङ्ख्यायाः’ इति कन् । शतिकः-शत्य इति । शतमस्मिन्वृद्धिः, आयः, लाभः, शुल्कः, उपदा वा, दीयते इति विग्रह । “शताच्च' इति ठन्यतौ । साहस्र इति ॥ सहस्रमस्मिन्दीयते इत्यादि विग्रहः । ’शतमानसहस्र' इत्यण् । रक्षानिर्वेश इति । रक्षा प्रजापरिपालनम् । तदर्थो निर्वेशः भृतिः रक्षानिर्वेशः । उत्कोच इति ॥ मह्यङ्किञ्चिद्दत्तश्चेत् तव राजद्वारेऽनुकूलो भवामीत्यादि समयं कृत्वा यद्गृह्यते तदुत्कोच इत्युच्यते इत्यर्थः । चतुर्थ्यर्थ इति ॥ तदस्मै वृद्ध्यादि दीयते इत्युपसङ्ख्यातव्यमित्यर्थः । सममब्राह्मणे इति । एवञ्च सम्प्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धेरुपसङ्ख्यानमिदन्नादर्तव्यमिति भावः । पूरणार्धाट्ठन् ॥ तदस्मिन् वृद्ध्यादि दीयते इत्यर्थे पूरणप्रत्ययान्तादर्धशब्दाञ्च प्रथमान्ताट्ठन् स्यादित्यर्थः । द्वितीयिकः । तृतीयिक इति । आर्हादिति ठकोऽपवादष्ठन् । अर्धिक इति । अर्धमस्मिन्वृद्ध्यादि दीयते इत्यर्थः । ’अर्धाच्चेति वक्तव्यम्’ इति टिठनोऽपवादष्ठन् । टिठनि सति तु स्त्रियां डीप् स्यात् । अर्धिकेति तु टाबेवेति वक्ष्यते । रूपकस्येति ॥ रूप्यस्य कार्षापणस्येत्यर्थः । रूढ इति ॥ अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामर्थ्य स्यादिति भावः । रूप्यकस्यार्धे रूढ इत्यत्र प्रमाणं मृग्यम्। असामर्थ्यन्तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः । भागाद्यञ्च ॥ तदस्मिन्वृद्ध्यादि दीयते इत्यर्थे भागशब्दात्प्रथमान्ताद्यत्प्रत्ययश्च स्यादित्यर्थः । चाट्ठनिति ॥ पूर्वसूत्रादनुकृष्यते इति शेषः । भागशब्दोऽपि रूप्यकस्यार्ध इति वर्तते इति शेषः । तद्धरति वहति ॥ वंशाद्भारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्यासम्भवात्