यदि तुष्टसि कल्याणि वयं दैत्येन्द्रपीडिताः।
दुर्लभं जीवितं चपि त्वां गता: शरणार्थिनः ।
ततः कदाचिदागत्य नारदो भगवानृषिः। ।
प्रणम्य परमां शक्तिमवच विनयान्वितः ।
अयं भण्डपुरो देवि वाघते जगतां त्रयम् ।
त्वयैकयैव जेतव्यो न शक्यस्स्वपरंः सुरैः ।।
दयः । देवर्षयश्च देवर्षयश्चेति विग्रहः । गणा आदित्यदयः ।
आदित्यविश्ववसवस्तुषिताभास्वरानिलाः। ।
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ।
रित्यादिरुद्रयामलोयतस्तेन स्तूयमानमित्यर्थः । तेन न गणसंघातपदाभ्यां पौनरुक्त्यं
शङ्कनीयम् । अथ परहप श्रवपक्षे देवादिस्न्यमानत्वविशेषणदिखिलानुगतमखिल
परिचितमखिलप्रमास्पदं चैतन्यमेवात्मेति शैवशास्त्रोक्तं स्वरूपं ध्वनितम । अग्नि-
पुराणेऽपि
तस्य चैतन्यमात्मेति प्रथमं सूत्रमीरितम् ।
ज्ञान बघ इतीदं तु द्वितीयं सूत्रमशितुः ।
ललिता विश्वविग्रहे' ति तन्त्ररागकताय आत्माभिन्नदेवताय वैभवं विभुत्वमनन्त
शक्ति संवृतत्वरूपं प्रभिनें यस्याः सेति वर्णनयम् ।
भण्डेति--अथ देवकायंसमृद्यतेति यत्म्यूलरूपस्य कार्मुक्तं तत्प्रपञ्चयति ।
भण्यनामकमुरस्तद्युद्धादिकं च ललितोपाख्याने विस्तरेण प्रसिद्धतरम् । तदुक्तं
तथैव पाण्डपुराणे मन्मथदाहं प्रक्रम्य
अथ तद्भस्म संवीक्ष्य चित्रकम मगश्वरः ।
तद्भस्मना तु पुरुषं चित्राकारं चकार सः । ।
1. ज्ञानं बन्धयतोदं तु