पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

:-to पच्चीकरमवार्तिकम। पृथिव्यादीनि भूतानि प्रत्येक विभजेद्वद्विधा। एकैकें भागमादाय चतुर्धा विभजेत्पुनः ॥ ८ ॥ एकैकं भागमेकस्मिन् भूते संवेशयेत्क्रमात् । ततश्चाकाशभूतस्य भागाः पश्च भवन्ति हि ।। ९ ।। वाय्वादिभागाश्वत्वारो वाय्वादिष्वेवमदिशेत् । पञ्चीकरणमेतत्स्यादित्याहुस्तत्ववेदिनः ॥ १० ।। पृथिव्यादीनीति । एकैकं भूतं द्वेधा विभज्य तश्ोरेकं चतुर्धा विभज्य चतुरो विभागान् तत्तद्वयतिरिक्तभूतवतुष्टये योजयेत् । ततश्च स्वांशोऽर्धमितरभूतानामंशाश्चत्वारोपि मिलित्वाऽधैमिति एकैकं भूर्तं पश्चात्मकं संपद्यत इत्यर्य: । वाय्वादीति । वाय्वादिभागाश्वत्वार आकाशभागोऽर्घ च मिलित्विा आकाशभूतस्य भागाः पश्वेति यॆण अन्वयेन योज्यम् । वाय्वादिष्विति । वायुभागोऽर्धं भूतान्तराणां चतुणाँ भागाश्चत्वारस्ततश्च वायोभगाः पञ्च भवन्तीत्येवं क्रमेण सवैत्रतिदिशेदित्यर्थः । अत्र केचिद्वाचस्पतिमिश्रमतानुसारिणः पश्धीकरणं यद्यपि संप्रदायसिद्धे तथापि युक्तिविरुद्धत्वात्तिवृत्करणमेवादरणीर्थ। पञ्जीकरणपक्षे पृथिव्यादिभागाना, आकाशवाय्वोः प्रवेशे रूपवत्वात्महत्वाच तयोश्वाक्षुषत्वं स्यातू । यद्याकाशादिभागानामाधिक्यादितरभागानां च स्वल्पवादविकेत स्वल्पस्याभिभूतत्वातू 'वैशेष्यातु तद्वदस्तद्वाद' इतेि न्यायेन चाक्षुषत्वाभावः, तर्हि आकाशार्दी पृथिव्यादिभागकल्पना व्यर्था, तेषां व्यवहारागोचरखात्। अथावि श्रुतििसद्धवादेव कल्यत इति यद्युच्येत, तथापि त्रिवृत्करणमेव श्रुतिसिद्धे, 'तासां त्रिवृतं त्निवृतमेकैकां करवाणीति? श्रुतेः । न पञ्चीकरणं নাম্বুবংশাত্মন্বিলাৰু । तत्राद्द - इत्याहुस्तत्ववेदिन इति । श्रुतिस्मृतिन्यायतश्ववेदिन इत्यर्थः ।