पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/17

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


হৰলিয়াম্ফ অন্ম । e कर्मेन्द्रियपञ्चकं, वृत्तिभेदेन पञ्च प्राणाः, मनो बुद्धिश्चति सप्तदशकं लिङ्गं तेभ्यस्समभवदिति । एवमेव समष्टिलिङ्गशरीरं हिरण्यगर्भोपाधिभूर्तं गोव्यक्तिषु गोत्वमेव व्यट्रिलिज्ञेश्वनुस्यूर्त जायते । इय|स्तु विशेषः - कृत्स्नब्रह्माण्डकारणतयाऽनुस्यूतेभ्यः सात्विकेभ्यः सूक्ष्मभूतेभ्य. एकैकतः समष्टिज्ञानेन्द्रियाणि, समुदितेभ्यस्तेभ्य एव समष्टयन्तःकरणैः, एर्वे राजसेभ्यः कर्मेन्द्रियाणि प्राणाश्च जायन्ते । समष्टिलिङ्गारंभकतया तदनुस्यूतेभ्यः कृत्स्नेभ्यः सात्विकादेिभूतेभ्यः व्यष्टिकरणानीति । अतएव सगुणब्रह्मोपासकस्य समष्टयपरिच्छिनसगुणब्रह्मभावेन परिच्छेदाभिमाने निवृते व्यट्रिलिंङ्ग समष्टिलिङ्गतां प्रतिपद्यते । ततश्व हिरण्यगभौंपाधिलिङ्गाभिमानेन हिंरण्यगर्भता. प्रातिरितेि तत्र तत्र भाष्यकारादिभिरुच्यमानं संगच्छते । अंशकार्यस्य अंशिकार्यान्तर्भावादिति। ६ । एवं लिङ्गशरीरवत्तभ्य एव भूतेभ्यः पञ्चीकरणेन स्थूलतामापन्नेभ्यः समंटिव्यटिस्थूलशरीरं जातमित्याह ततः स्थूलानि भूतानि पञ्च तेभ्यो विराडभूत् । पश्वीकृतानि भूतानि स्थूलानीत्युच्यते बुधैः ॥ ७ ॥ तत इति । सूक्ष्मेभ्यो भूतेभ्यः स्थूलत्वाविष्टवेषेण जातानि स्थूलानेि भूतानि। तेभ्यो विराट् स्थूल शरीरं द्विपकारमपि अभूदित्यर्थ:। अलपि भूतेभ्योंशिभ्योऽण्डैः तर्दशेभ्यः पिण्डमिति उपाख्यवैश्वानराश्मकत्वप्राप्तिः पूर्वोक्तरीया द्रष्टब्या । सूक्ष्मभूतेभ्यः भिलानि स्थूलानि जातानीति भ्रमै वारयति-पश्वीकृतानीति। तान्येव पश्वीकृतानि सन्ति स्थूलानीयर्थः । पश्चीकरणप्रकारमाई -