पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/16

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& पञ्चीकरणवार्तिकम } तेभ्यः समभवत् * भूतं लिङ्गं सर्वात्मकं महत् ।। ६ ।। तेभ्य इति । लिङ्गशरीरं च ज्ञानेन्द्रियाणि पञ्चैवेत्यादिना वक्ष्यमाणं । ननु इन्द्रियाणि अईंकारकार्याणि, प्राणास्तु करणाना सामान्यवृत्तिरिति सांख्याः पौराणिकाश्वाहुः । तत्कथे भूतकार्यवं अत आह-भूतमिति । भूतात्मकं तत्कार्यमित्यथैः ।। * अन्नमयं हि सोम्य मनः ' इत्यादिश्रुतेश्चक्षुरादीनां तेजआदिभूतैः अपचयदर्शनात् तेजअदिभूतग्राहकत्वाच्च भौतिकत्वमित्यर्थः । सर्वात्मकमिति । हिरण्यगभौपाधिभूतस्य समष्टिलिङ्गशरीरस्य सर्वव्यष्टिलिङ्गशरीरव्यापित्वात् सर्वात्मकत्वमित्यर्थः ॥ यद्वी वैशेषिकादयस्तु चक्षुरादीन्द्रियाणि भौतिकान्येव; तानि शरीरेण सह जायन्ते, सहैव नश्यन्ति । न तु शरीरान्तरसंचारिचक्षुरादिकरणसङ्घातरूपै लिङ्ग नाम किंचिदस्ति । मन एव तु केवलैं शरीरान्तरसंचारील्याहुः । तन्मर्त निराकरोति -सर्वात्मकमिति । क्रमेण प्रतिपद्यमानदेवादिसर्वशरीरेषु प्रविश्य तेषामात्मतया वर्तमानमित्यथैः । केवलस्य व्यापकस्यात्मनः स्वत उत्क्रान्त्यादीनामसंभवात्, * तमुत्क्रामन्तॆ प्राणोऽनूरुक्रामति प्राणमनूत्क्रामन्तं सर्वै प्राणा अनूष्क्रामन्ति' इति श्रुतेश्च , * तदापीतेः संसारव्यपदेशादिति' न्यायाच्च करणसमुदायरूपमात्मन उत्क्रान्त्यायुपधिभूतै लिझैं शरीरान्तरसंचारीति अङ्गीकर्तव्यमित्यर्थः ॥ अत्रेदमवधेयम् - मायायाखिगुणात्मकत्वात् तत्कार्याणि भूतान्यपि तादृशान्येव ! अत्र भूतानां सात्विकांशेभ्यः प्रत्येकं श्रोत्त्रादीनि पञ्च ज्ञानेन्द्रियाणि जायन्ते । तेभ्यो मिलितेभ्यः पञ्चभ्यो मनोबुद्धयर्हृकारचित्तात्मकमन्तःकरणै `जायते । तेषामेव राजसांशेभ्यः प्रत्येकं कर्मेन्द्रियाणि वागार्दीनि पञ्च क्रमेण जायन्ते । तेभ्य एव मैिलेितेभ्यः प्राणादिपञ्चवृत्तिकः प्राणो जायते । तत्र चित्ताइंकारयोर्मनोबुद्धयोरन्तर्भावेनान्तःकरणस्य द्वैविध्ये सति ज्ञानेन्द्रियपञ्चकं, 4• सूत्रं