[ भाष्यम् ]
नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम् । कथमिति ? अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम्, न तु [१]अदृष्टजन्मवेदनीयस्यानियतविपाकस्य । यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति । तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्वेिज्ञाना चेति । [२]न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽनुज्ञायत इति ॥ १३ ॥
[ विवरणम् ]
{{gap}}नियतविपाकप्रधानकर्मभिभूतस्य वाऽप्यवस्थानम् । कथमिति दुष्टाभिप्रायः प्रश्नः । कथं ? प्रवृत्तराज्येनापरस्याप्रवृत्तराज्यस्याभिभवे युक्तो निमित्तभेदेन राज्यप्रवृत्तेः । इह तु निमित्तमाभिव्यञ्जकं मरणं सर्वेषां कर्मणां तुल्यं तस्मिंस्तु निमित्ते सति सर्वेषां कर्मणां वृत्तिलाभो युक्त इति प्रधानकर्माभिभवो न युक्त इतरस्येति मन्यते । ततश्चावापगमनमेवास्त्विति ॥
अत्रोच्यते-तत्रादृष्टजन्मवेदनीयस्यैव अविरुद्धदेशकालविपाकादि निमित्तस्य नियतविपाकस्य पुण्यापुण्यरूपस्यानेकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम् । न तु दृष्टजन्मवेदनीयस्य पुत्रग्रामादिविषयस्य, अनियतविपाकस्य वा अदृष्टजन्मवेदनीयस्य यथाकृतव्याख्यानस्य ॥
यत्त्वदृष्टजन्मवेदनीयमनियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्युपासीत उदासीत, यावत्समानमविरुद्धं तुल्यजातीयमभिव्यञ्जकं निमित्तं कर्म । समानजातीयं हि कर्म विपच्यमानमेतदभिमुखं करोति ॥
तद्विपाकस्यैव तस्यानियतविपाकस्य कर्मणो विपाकस्यैव । देशकालनिमित्तानवधारणात्कस्मिन्वा देशे कस्मिन्वा निमित्ते कस्मिन्काले वा तत्कर्म