वंशगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः ।
मुनिपत्न्याहृताहारो मुनिश्रेष्टी मुनिप्रियः ॥ ६५
गोवर्द्धनाद्रिसन्धर्ता सङ्कन्दनतमोऽपहः ।
सदुद्यानविलासी च रासक्रीडापरायणः ॥ ६६
वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तम: ।
अक्रूरस्तुतिसम्प्रीतः कुब्जायैौवनदायक: ॥ ६७
मुष्टिकोरःप्रहारी च चाणूरोदरदारणः ।
मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः ॥ ६८
मत्तमातङ्गपञ्चास्यः कंसग्रीवानिकृन्तनः ।
उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः ॥ ६९
कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः ।
साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ ७०
रुक्मगर्वापहारी च रुक्मिणीनयनोत्सवः ।
प्रद्युम्नजनकः कामी मद्युम्नो द्वारकाधिपः ॥ ७१
मण्याहर्ता महामायो जाम्बवत्कृतसङ्गरः ।
जाम्बूनदाम्बरधरो गम्यो जाम्बवतीविभुः ॥ ७२
कालिन्दीप्रथितारामकेलिर्गुञ्जावतंसकः |
मन्दारसुमनोभास्वान् शचीशाभीष्टदायक: ॥ ७३