दन्त्यम् । कण्ठ्यम् । “नस्नासिकायाः’ (वा ३४९७) । नस्यम् ।
नाभ्यम् ।
१६६७ । ये च तद्धिते । (६-१-६१)
यादौ तद्धिते परे शिरःशब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्य 'तद्धिते' किम् । शिर इच्छति शिरस्यति । “वा केशेषु' (वा ३४९३) । शीर्षण्याः-शिरस्या वा केशाः । * अचि शीर्ष इति वाच्यम्’ (वा ३४९४) । अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलाशिरस इदं स्थौलशीर्षम् ।
१६६८ । खलयवमाषतिलवृषब्रह्मणश्च । (५-१-७)
खलाय हितं खल्यम् । यव्यम् । माष्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ।
१६६९ । अजाविभ्यां थ्यन् । (५१-८)
अजथ्या यूथिः । अविथ्या ।
१६७० । आत्मन्विश्वजनभोगोत्तरपदात्खः । (५-१-९)
चतुर्थ्यन्तात् हितमित्यर्थे यत्स्यादित्यर्थः । छस्यापवादः । नस्यमिति ॥ नासिकायै हित भित्यर्थः । * पद्दन्' इति नस्, प्रभृतिग्रहणस्य प्रकारार्थत्वात् । भाष्ये तु ‘नासिकाया यत् तस् क्षुद्रेषु नस्’ इति पठितम् । नाभ्यमिति । नाभये हितमित्यर्थः । नाभिरत्र शरीरावयवः । रथावयवत्वे तु नभादेश उक्तः । ये च तद्धिते ॥ शीर्षन्नादेश इति ॥ ‘शीर्षन् छन्दसि’ इत्यतः तदनुवृत्तेरिति भावः । शीर्षण्य इति ॥ शिरसे हित इत्यर्थः । शरीरावय वत्वाद्यति शीर्षन्नादेशे ‘ये चाभावकर्मणोः’ इति प्रकृतिभावान्न टिलोपः । शिरस्यतीति ॥ शिर आत्मनः इच्छतीत्यर्थे “सुप आत्मन.' इति क्यचि ‘नः क्ये' इति नियमात् पदत्वाभावान्न रुत्वम् । वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितः तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः । प्रसङ्गादाह । अजादाविति ॥ खलयव ।। खलादिभ्यश्चतुर्थ्यन्तेभ्यः हितमित्यर्थे यत्स्यादित्यर्थः । वृषशब्दोऽत्र अकारान्त एव गृह्यते, नतु नकारान्तः । तेन वृष्णे हितमिति वाक्यमेव । ब्रह्मन्शब्दो ब्राह्मणवाच्येव गृह्यते, नतु वेदादिवाची । तेन ब्रह्मणो वेदाय हितमिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्रह्मण्यमित्यत्र ‘ये चाभावकर्मणोः' इति प्रकृति भावान्न टिलोपः । चाद्रथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः । अजाविभ्यां थ्यन् ॥ अजश्च अविश्चेति द्वन्द्वः । अविशब्दस्य घित्वेऽपि ‘अजाद्यदन्तम्’ इत्यजशब्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्यः अजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्टपरि भाषया अजाशब्दादपि थ्यन् । तसिलादिष्वपि पुंवत्त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्रीत्वं लोकात् । आत्मन्विश्वजन ॥ आत्मन्, विश्वजन, भोगोत्तरपद, एभ्यः हितमित्यर्थे