पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१६
[आर्हीय
सिद्धान्तकौमुदीसहिता

१६७१ । आत्माध्वानौ खे । (६-४-१६९)

एतौ खे प्रकृत्या स्तः। आत्मने हितमात्मनीनम् । विश्वजनीनम् कर्मधारयादेवेष्यते । षष्टीतत्पुरुषाद्वहुव्रीहेश्व छ एव । विश्वजनीयम् । “पञ्च जनादुपसङ्खयानम्’ (वा २९९६) । पञ्चजनीनम् । * सर्वजनाट्ठञ् खश्च (वा २९९७) । सार्वजनिकः-सर्वजनीनः महाजनाटठञ्' (वा २९९८) माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीनः। आचार्यादणत्वं च (ग सू १८४) । आचार्यभोगीनः।

१६७२ सर्वपुरुषाभ्यां णढञौ । (५-१-१०)

सर्वाण्णो वेत्ति वक्तव्यम्’ (वा २९९९) । सर्वस्मै हितं सार्वम् सर्वीयम् । “पुरुषाद्वधविकारसमूहतेनकृतेषु' (वा ३०००) । भाष्यकारप्रयो गात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः। पुरुषस्य वधः पौरुषेयः। तस्येदम् (सू १५००) इत्यणि प्राप्ते पुरुषस्य विकारः पौरुषेयः। प्राणिरजता- दिभ्योऽञ्’ (सू १५३२) इत्यञि प्राप्ते, समूहेऽप्यणि प्राप्ते, “एकाकिनोऽपि


खः स्यादित्यर्थः । आत्मनीनमित्युदाहरणं वक्ष्यति । तत्र टिलोपे प्राप्ते । आत्माध्वानौ खे प्रकृत्या स्त इति ॥ “प्रकृत्यैका च् ' इत्यतस्तदनुवृत्तरिति भाव कर्मधारयादेवेति।। विश्वजनशब्दादिति शेषः। अत्र व्याख्यानमेव शरणम् । विश्वजनीयमिति । विश्वस्य जनो विश्वजनःसाधारणो वैद्यादिः। विश्वो जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः। पञ्च जनीनमिति ॥ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा: रथकारजातिश्चेत्येते पञ्च जनाः।तेभ्यो हितमिति विग्रहः। सर्वजनाट्ठञ् खश्चेति ॥ वक्तव्य इति शेषः। समानाधिकरणादिति वक्तव्यम्। इति वार्तिक भाष्ये स्थितम् । महाजनाट्ठञिति ॥ वक्तव्य इति शेषः । विश्वजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपदस्योदाहरति । मातृभोगीण इति।। मातृभागाय हित इत्यर्थः । आचार्यादिति । आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाभावो वाच्य इत्यर्थः । नच असमानपदस्थत्वादेवात्र णत्वस्याप्रसक्त्तेस्तन्निषेधो व्यर्थ इति वाच्यम् । मातृभोगी णादौ णत्वज्ञापनार्थत्वात् । सर्वपुरुषाभ्यां णढञौ ॥ सर्व, पुरुष, आभ्याश्चतुर्थ्यन्ताभ्यां क्रमात् णढञौ स्तः, हितमित्यर्थे इत्यर्थः । सर्वाण्ण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् । पुरुषाद्वधेति।। वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ् स्यात्, न हितार्थे इत्यर्थ। ननु तेन कृतमिति समुदायस्य असुबन्तत्वात् कथं समासे निवेश इत्यत आह्। भाष्येति ॥ आणि प्राप्ते इति॥अनेन ढञिति शेषः। प्राणीति ।। रजतादित्वादानि प्राप्ते अनेन ढञित्यर्थः । समूहेऽयणि प्राप्ते इति । पुरुषाणां समूहः इत्यर्थे ‘तस्य समूहः इत्यणि प्राप्ते अनेन ढञित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परित शष तभ्या