१६१५ ॥ बह्वच्पूर्वपदाट्ठच्
प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठाः अस्य जाता इत्यर्थः ।
१६१६ । हितं भक्षाः । (४-४-६५)
अपूपभक्षणं हितमस्मै आपूपिकः ।
१६१७ । तदस्मै दीयते नियतम् । (४-४-६६)
अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ।
१६१८ । श्राणामांसौदुनाट्टिठन् । (४-४-६७)
श्राणा नियतं दीयतेऽस्मै श्राणिकः-श्राणिकी । मांसौदनग्रहणं सङ्घात विगृहीतार्थम् । मांसौदनिक:-मांसिकः । औदनिकः ।
१६१९ ॥ भक्तादणन्यतरस्याम् । (४-४-६८)
पक्षे ठक् । भक्तमस्मै नियतं दीयते भाक्तः-भाक्तिकः ।
१६२० । तत्र नियुक्तः । (४-४-६९)
आकरे नियुक्तः आकारिकः ।
अनेन कर्मशब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति । अनेन कर्म वृत्त मित्येतत् तदित्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । तदित्यनुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रथमानिर्दिष्टत्वात्, अत एव प्रत्ययः स्यात्, नतु तद्विशेष्यवाचकात्, तस्य प्रथमा- निर्दिष्टत्वाभावादित्यभिप्रेत्योदाहरति । एकमन्यद्वृत्तमस्य ऐकान्यिक इति । “तद्धितार्थ इति समासे एकान्यशब्दाट्ठगिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः । बह्वच् पूर्वपदाट्ठच् ।। ‘तदस्य कर्माध्ययने वृत्तम्' इत्यनुवर्तते । तदाह । प्राग्विषये इति ॥ द्वादशान्यिक इति ॥ ‘तद्धितार्थ’ इति समासः । एवं त्रयोदशान्यिकः । चित्त्वान्नादिवृद्धिः। हितम्भक्षाः ॥ तदस्येत्यनुवृत्तम् । तत्र षष्ठी चतुर्थ्या विपरिणम्यते । हितयोगात् तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक स्यात् यत् हितम्भक्षाश्चेत् ते स्युरित्यर्थः । संस्कृतं भक्षाः इतिवद्याख्येयम् । अपूपभक्षणमिति । अनेन अपूपशब्दः अपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थे तु न ठक् । अभिधानस्वाभाव्यादिति भावः । तदस्मै दीयते नियतम् । अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः । नियुक्तमिति पक्षान्तरम् । नियतमित्यर्थः श्चाणामांस ॥ तदस्मै दीयते नियतमित्येव । श्चाणा यवागूः । “यवागूरुष्णिका श्राणा विलेपी तरला च सा” इत्यमरः । टित्त्वं डीबर्थम् । तदाह । श्राणिकीति । सङ्घात विगृहीतार्थमिति । ठकैव सिद्धे ओदनिक इत्यत्र आदिवृध्यभावार्थं प्रत्ययान्तरविधानमिति भावः । भक्तादणन्यतरस्याम् ॥ तदस्मै दीयते नियतमित्येव । तत्र नियुक्तः ।