पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०६
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१६२१ । अगारान्ताठ्ठन् । (४-४-७०)

देवागारे नियुक्तो देवागारिकः ।

१६२२ । अध्यायिन्यदेशकालात् । (४-४-७१)

निषिद्धदेशकालवाचकाट्ठक्स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः ।

१६२३ । कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति । (४-४-७२)

तत्र' इत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशाः वेणव कठिनाः यस्मिन्देशे स वंशकठिनः। तस्मिन्देशे या क्रिया यथा अनुष्ठेया तां तथैवानुतिष्ठतीत्यर्थ । प्रास्तारिकः । सांस्थानिकः ।

१६२४ । निकटे वसति । (४-४-७३)

नैकटिको भिक्षुः ।

१६२५ । आवसथात ष्ठल् । (४-४-७४)

आवसथे वसति आवसथिकः । षित्त्वान्ङीष् । आवसथिकी ।


अस्मिन्नर्थे सप्तम्यन्ताट्टक् स्यादित्यर्थः । नियुक्तः अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । आाकरिक इति ॥ आकरः रन्नाद्युद्भवस्थानम् । अगारान्ताट्टन् । तत्र नियुक्त इत्येव । नित्त्वान्नादिवृद्धिः । तदाह । देवागारिक इति ॥ अध्यायिन्यदेशकालात् ॥ निषिद्धेति । अदेशकालेस्यत्र नञ् निषिद्धे वर्तते इति भावः । श्माशानिकः । चातुर्दशिक इति । देशकालभिन्नादिति व्याख्यानेन तु इह न स्यादिति भावः । कठिनान्तप्रस्तार ॥ अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान, एभ्यः सप्तम्यन्तेभ्यः ठगित्यर्थः । वंशकठिनशब्दं विवृणोति । वंशा इति ॥ व्यवहरणम् उचितक्रिया । तदाह । यस्मिन्देशे इति ॥ प्रस्तारसंस्थानशब्दौ अवयवसन्निवेशपर्यायौ । निकटे वसति । अस्मिन्नर्थे सप्तम्यन्ता न्निकटशब्दाट्ठगित्यर्थः । नैकटिको भिक्षुरिति । ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शास्त्रमल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । अत्र व्याख्यानमेव शरणम् । आवसथात्ष्ठल् । तत्र वसतीत्यर्थे आवसथात् सप्तम्यन्तात् ष्ठलित्यर्थः । आवसथं गृहम् । षित्वं डीषर्थम् । तदाह । आवसथिकीति ॥ आकर्षादित्यादि श्लोकवार्तिकं प्राग्वहतेष्ठक्’ इत्यादौ ठगिति वा ष्टगिति वा छेद इति संशयनिवृत्त्यर्थम् “ आकर्षात्ष्ठल्’ इति सूत्रभाष्ये । पठितम् । तत्र आकर्षादित्यनेन “ आकर्षातष्ठल्' इति सूत्रं विवक्षितम् । पर्पादिभ्यः इत्यनेन 'पर्पादिभ्यः ष्ठन्’ इति सूत्रं विवक्षितम् । भस्रादिभ्यः इत्यनेन “भस्रा दिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेन 'कुसीददशैकादशात् ष्ठन्ष्टचौ'