सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७८७
बालमनोरमा ।

१५२५ । गोश्च पुरीषे । (४-३-१४५)

गोः पुरीषं गोमयम् ।

१५२६ । पिष्टाच । (४-३-१४६)

मयट् स्याद्विकारे । पिष्टमयम् भस्म । कथं पैष्टी सुरेति । सामान्य विवक्षायां “तस्येदम्’ (सू १५००) इत्यणु ।

१५२७ । संज्ञायां कन् । (४-३-१४७)

पिष्टात्' इत्येव । पिष्टस्य विकारविशेषः पिष्टकः । “पूपोऽपूपः पिष्टक स्यात्' इत्यमरः ।

१५२८ । ब्रीहेः पुरोडाशे । (४-३-१४८)

मयट् स्यात् । बिल्वाद्यणोऽपवादः । व्रीहिमयः पुरोडाशः । त्रैहमन्यन् ।

१५२९ । असंज्ञायां तिलयवाभ्याम् । (४-३-१४९)

तिलमयम् । यवमयम् । सञ्ज्ञाया तु तैलम् । यावकः ।

१५३० । तालादिभ्योऽण् । (४-३-१५२)

अञ्मयटोरपवादः । “तालाद्धनुषि' (ग सू १९४) । तालं धनुः । न्यत्तालमयम् । ऐन्द्रायुधम् ।

१५३१ । जातरूपेभ्यः परिमाणे । (४-३-५६)


एकाचो नित्यमिति । नित्यमिति योगविभागलब्धमिदम् । अण्णन्तादिति ॥ अपा मिदमापम् ‘तस्येदम्' इत्यण् । ततः स्वार्थे चतुर्वर्णादित्वात् घ्यजि आप्यमिति रूपमित्यर्थः । गोश्च पुरीषे ॥ नित्यं मयडित्यनुवर्तते । गोमयमिति । यद्यपि पुरीषं न गोर्विकारो नाप्यवयवः । तथापि तस्येदमित्यर्थऽयं प्रत्ययः । पिष्टाञ्च ॥ शेषपूरणेन सूत्र व्याचष्ट । मयट् स्याद्विकारे इति ॥ संज्ञायां कन् । विकारविशेष इति ॥ इत्यर्थः । तदाह । पूपो अपूप ऽपूपः पिष्टकः स्यादिति ॥ अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् । ‘अतुङ्गमनपूपाकृतिम४शफमात्रम्पुरोडाशङ्करोति' इति श्रुतेः। व्रीहेः पुरोडाशे ॥ पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह । त्रैहमन्य दिति ॥ असंज्ञायां तिलयवाभ्याम्॥ नित्यं मयडिति शेषः । यावक इति । यवशब्दा द्विकारे अण् । ततः यावादिभ्य इति स्वार्थे कन् । तालादिभ्योऽण् ॥ तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति ॥ 'नित्यं वृद्ध' इति मयटोऽपवादः । ऐन्द्रायुध मिति ॥ 'अनुदात्तादेश्च' इत्यओऽपतादः । समासस्वरेणान्तोदात्तत्वात् । जातरूपेभ्य ॥