पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८८
[विकारार्थ
सिद्धान्तकौमुदीसहिता

अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । “परिमाणे' किम् । हाटकमयी यष्टिः ।

१५३२ । प्राणिरजतादिभ्योऽञ् । (४-३-१५४)

शैौकम् । बाकम् । राजतम् ।

१५३३ । जितश्च तत्प्रत्ययात । (४-३-१५५)

ञ्पिद्यो विकारावयवप्रत्ययः तदन्तादञ्स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । 'मितः' किम् ।

१५३४ । क्रीतवत्परिमाणात् । (४-३-१५६)

प्राग्वहतेष्टक्’ (सू १५४८) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः। निष्केण क्रीतं नैष्ठिककम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकार शत्यः-शतिकः ।


आणिति । शेषपूरणम् । जातरूपं सुवर्ण, तद्वाचिभ्योऽण् स्यात्परिमाणे विकारे गम्ये इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह । बहुवचनादिति ॥ हाटक इत्यादि ॥ हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः । तापनीय इति ॥

  • नित्यं वृद्धशरादिभ्यः' इति मयटोऽपवादः । इतरत्र तु “अनुदात्तादेश्च' इत्यञ्जाऽपवाद ।

“गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाक्षः' इत्यमरः । “सुवर्णबिस्तौ हेस्रोऽक्षे ” इति च । प्राणिरजतादिभ्योऽञ् ॥ शौकम् । बावकामात ॥ शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः । ‘प्राणिनाङ्कपूर्वाणाम्’ इत्युदात्तत्वात् । ‘अनुदात्तादेश्च' इत्यञ्जो न प्राप्तिः । राजतमिति अनुदात्तादित्वादनि सिद्धे मयड्बाधनार्थमञ्विधिः । जितश्च तत्प्रत्ययात् ॥ तयो विकारावयवयोः प्रत्ययः तत्प्रत्ययः । तदाह । भिद्य इति ॥ विकारावयवयोरेवेत्यर्थः । शामीलस्येति ॥ शम्या विकारः अवयवो वा शामीलम् । 'शम्याः ष्लञ्' । शामीलस्य विकारः अवयवो वेल्यर्थे अलि शामीलामिति भवतीत्यर्थः । “नित्यं वृद्ध' इति मयटोऽपवादः । दाधित्थमिति ॥ दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम्, मयडपवादोऽञ् । बैल्वमयमिति ॥ 'बिल्वादिभ्योऽण्' इति बिल्व शब्दादणि बैल्वः, तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो जित्वाभावादिति भावः । भाष्ये तु “विकारावयवप्रत्ययान्तात् पुनस्तत्प्रत्यया अनभिधानात् न” इत्याश्रित्य सूत्रमिदं प्रत्या ख्यातम् । क्रीतवत्परिमाणात् ॥ उपाधिनेति ॥ प्रकृत्यादिविशेषणेनेत्यर्थः । नैष्किक इति ॥ “ असमासे निष्कादिभ्यः' इति कीते ठक् । शल्यः-शतिक इति ॥ ‘शताच