सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७७७
बालमनोरमा ।

१४८३ । काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । (४-३-१०३)

काश्यपेन प्रोक्तमधीयते काश्यपिनः।

१४८४ । कलापिवैशम्पायनान्तेवासिभ्यश्च । (४-३-१०४)

कलाप्यन्तेवासिभ्यः– हरिदुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पा यनान्तेवासिभ्यः-आलम्बिनः ।

१४८५ । पुराणप्रोक्तषु ब्राह्मणकल्पेषु । (४-३-१०५)

तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् । यत्प्रोक्तं पुराणप्रोक्ताश्चेद्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन,


प्रत्ययशिरस्काणामेवेत्याह । छन्दोब्राह्मणानीति ॥ तद्विषयतेति । अध्येतृवेदितृप्रत्यय शिरस्कत्वन्त्वनियम इत्यर्थः । तैत्तिरीया इति ॥ प्रोक्ते वेदे छण् ईयः । तैत्तिरीयः शाखाभेदः तमधीयते विन्दन्ति वेत्यर्थे अण् । ‘प्रोक्ताल्लुक्’ इति तस्य लुगिति भावः। चारतन्तवीयाः खाण्डि कीयाः औखीयाः । तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र तु न । छन्दसीत्यनुवृत्तेः । छन्दशब्देन च। कल्पसूत्राणामपि ग्रहणम् । तेषां सर्वेशाखागतविधिवाक्यसङ्गहात्मकत्वात् । काश्यप ॥ तेन प्रोक्तमित्येव । छस्यापवादः । काश्यपिन इति ॥ काश्यपशब्दात् णिनिः । णकार इत् , नकारादिकार उच्चारणार्थः । काश्यपिन्शब्दात् ‘प्रोक्ताल्लुक्’ इत्यध्येतृप्रत्ययस्याणो लुगिति भावः । एवं कौशिकिनः । ऋषिभ्याङ्किम् । इदानीन्तनेन काश्यपेन प्रोक्तं काश्यपीयम् । कलापि ॥ तेन प्रोक्तमित्येव । कलापिशिष्यवाचिभ्यः वैशम्पायनाशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्यः इति ॥ उदाह्रियते इति शेषः । हारिद्रविण इति ॥ हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः, ओर्गुण’, आदिवृद्धिः । हारिद्रविन्शब्दादध्येत्रण: * प्रोक्ता ल्लुक्' इति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलपः इति चत्वारः कलापिशिष्याः । तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनाः न्तेवासिभ्यः इति ॥ उदाह्रियते इति शेषः । आलम्बिन इति ॥ आलम्बिः, कलिङ्ग कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति नव वैशम्पायनशिष्याः । तत्र आलम्बशब्दात् अध्येत्रणः प्रोक्ते णिनिः । आलम्बिन्शब्दादध्येत्रणः ‘प्रोक्ताल्लुक्’ इति लुक् । आलम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः, अत्र आपेत्यस्य' इति यलोपः। श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण् वक्ष्यते । वैशम्पायनशिष्यः कलापी। तथाच कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात् तच्छिष्यशिष्याणां न ग्रहणामिति भाष्ये स्पष्टम् । पुराणप्रोक्तषु ॥ 'तेन प्रोक्तम्' इति णिनिः इति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागाः ब्राह्मणानि । बोधायनादिकल्पसूत्राणि कल्पाः । तथाभूतेषु पुरातनमुनि प्रोक्त्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः । तदाह । तृतीयान्तादिति ॥ यत्प्रो क्तमिति ॥ सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राह्मण कल्पात्मकश्चेति यावत् । पुराणप्रोक्तमित्येतद्याचष्टे । पुराणेनेति ॥ ब्राह्मणे उदाहरति । ७७७ 98