पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७८
[शैषिक
सिद्धान्तकौमुदीसहिता

शाट्यायनिनः । कल्पे, पिङ्ग पैङ्गी कल्पः । “पुराण-' इति किम् । याज्ञवल्कानि ब्राह्मणानि । आश्मरथ: कल्पः । अणि । “ आपत्यस्य-' (सू १०८२) इति यलोपः ।

१४८६ । शौनकादिभ्यश्छन्दसि । (४-३-१०६)

छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ।

१४८७ । कठचरकाल्लुक् । (४-३-१०७)

आभ्यां प्रोक्तप्रत्ययस्य लुक्स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ।

१४८८ । कलापिनोऽण् । (४-३-१०८)

कलापिना प्रोक्तमधीयते । कालापाः । नान्तस्य टिलोपे सब्रह्मचारि पीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्व णामुपसङ्खयानम्' (वा ४१८३) इत्युपसङ्खयानाट्टिलोपः ।

१४८९ । छगलिनो ढिनुक् । (४-३-१०९)


भल्लु, भाल्लविनः इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान् ब्राह्मणभागानधीयते इत्यर्थे प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि भाल्लविन् इति रूपमिति भावः। ब्राह्मणे उदाहरणान्तरमाह।शाट्यायन्, शाट्यायनिन इति।। शाट्या- यनेति प्रकृतिनिर्देशः । शाट्यायनेन पुरातनमुनिना प्रोक्तान् ब्राह्मणभागान् अधीयते इत्यर्थे प्रोक्तार्थणिनिप्रत्यये शाट्यायनिन्शब्दादध्येत्रणो लुकि शाट्यायनिन इति रूपमित्यर्थः । कल्पे इति ॥ उदाह्रियते इति शेषः । पिङ्ग पैङ्गी कल्प इति ॥ पिङ्गेति प्रकृतिनिर्देशः पिङ्गेन पुरातन मुनिना प्रोक्त इत्यर्थे णिनि रूपम् । ‘छन्दोब्राह्मणानि च तद्विषयाणि' इत्यध्येतृप्रत्ययान्तत्वनियमस्तु कल्पेषु न सर्वत्र प्रवर्तत इति 'छन्दो ब्राह्मणानि' इति सूत्रे भाष्ये स्पष्टम् । याज्ञवल्कानि ब्राह्मणानीति ॥ याज्ञवल्क्येन प्रोक्तानीत्यर्थः । आश्मरथः कल्प इति ॥ आश्मरथ्येन प्रोक्त इत्यर्थः । यलोप इति ॥ यज्ञवल्काश्वरथशब्दौ कण्वादी । ताभ्यां यजन्ताभ्याम् अणि ‘आपत्यस्य च' इति यलोप इत्यर्थः । याज्ञवल्क्याश्मरथ्यावाधुनिकावित्यभिमानः । भाष्ये तु शाट्याय नादितुल्यकालत्वात् याज्ञवल्क्यादिभ्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्ध मित्यास्तान्तावत् । कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति ॥ प्रकरणलभ्यम् । कठाः इति । वैशम्पायनान्तेवासित्वलक्षणणिनो लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक्’ इति लुक् । चरकाः इति । चरकेण प्रोक्तमधीयते इत्यर्थः । प्रोक्ताणोऽनेन लुकि अध्येत्रणः प्रोक्ताल्लुक् । कलापिनोऽण् ॥ 'तेन प्रोक्तम्' इत्येव । वेशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः । ‘इनण्यनपत्ये' इति प्रकृतिभावमाशङ्कय आह । नान्तस्येति । छगलिनो ढिनुक् ॥