सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७६
[शैषिक
सिद्धान्तकौमुदीसहिता

१४८० । जनपदिनां जनपदवत्सर्वं जनपदेन समान- शब्दानां बहुवचने । (४-३-१००)

जनपदस्वामिवाचिनां बहुवचने जनपदवाचिना समानश्रुतीनां जनपद- वत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । 'जनपदतदवध्योश्च' (सू १३४८) इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गाः जनपदो भक्तिरस्य आङ्गकः । अङ्गाः क्षत्रियाः भक्तिरस्य आङ्गकः । ‘जनपदिनाम्’ किम् । पञ्चालाः ब्राह्मणाः भक्ति- रस्य पाञ्चालाः । 'जनपदेन' इति किम् । पौरवो राजा भक्तिरस्य पौरवीयः ।

१४८१ । तेन प्रोक्तम् । (४-३-१०१)

पाणिनिना प्रोक्तं पाणिनीयम्

१४८२ ॥ तित्तिरिवरतन्तुखण्डिकोखाच्छण् । (४-३-१०२)

'छन्दोब्राह्मणानि -' (सू १२७८) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तेत्तिरीयाः ।


जनपदिनाम् । बहुवचने परे ये जनपदसमानशब्दाः जनपदवाचिशब्देन समानः शब्दः श्रवणं येषां तथाविधाः तेषां जनपदिनाञ्जनपदस्वामिवाचिनां जनपदवत् जनपदे इव सर्व स्यादित्यर्थः । “जनपदतदवध्योश्च' इति प्रकरणे ये प्रत्यया विहिताः ते भवन्ति, प्रकृतयोऽपि तथैव भवन्तीति तु सर्वशब्दाल्लभ्यते । तदाह। जनपदस्वामिवाचिनामित्यादिना। अङ्गा जनपद् इति ॥ दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो जनपदः अङ्गाः,'जनपदे लुप्' इति चातुरर्थिकस्य लुप् । सः जनपदः भक्तिरस्येत्यर्थे 'जनपदतदवध्योश्च' इति वुञ्प्रत्यये आङ्गकः इति यथा तथा अङ्गदेशस्वामिनः क्षत्रियाः अङ्गाः भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद्वुञि आङ्गका इति रूपमित्यर्थः । पञ्चाला ब्राह्मणा इति । अभेदोपचारादिह ब्राह्मणेषु पञ्चालशब्दः। तत्रातिदेशाभावादणेव भवति । पौरव इति ।॥ पौरवशब्दो न जनपदवृत्ति- रिति भावः । बहुवचने किम् । जनपदादिवचनयोः सत्यपि शब्दभेदे अतिदेशो भवति । यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति । प्रकृतिश्चेति किम् । मद्राणां राजा माद्रः । 'द्व्यञ्मगध' इत्यण् । माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सति 'मद्रव्रज्योः' इति कनि माद्रक इति सिद्ध्यति । तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्तात् यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति । व्याकरणमिति शेषः । वृद्धाच्छः. । प्रथम- म्प्रकाशितम्प्रोक्तम्। नेह देवदत्तेनाद्ध्यापितम् । तित्तिरिवरतन्तु। तेन प्रोक्तमित्येव। तित्तिरि, वरतन्तु, खण्डिक, उखा, एभ्यः उक्तविषये छण् स्यादित्यर्थः। इत आरभ्य 'तेनैकदिक्’ इतिपर्य- न्तम्प्रोक्ते वेदे भवन्ति ‘शौनकादिभ्यः छन्दसि' इति छन्दोग्रहणस्य ततः पूर्वन्ततः उत्तरञ्चाप- कर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषाङ्केवलानान्न प्रयोगः । किन्त्वध्येतृवेदितृ