१२५१ । ग्रामजनबन्धुभ्यस्तल् । (४-२-४३)
ग्रामता । जनता । बन्धुता । “गजसहायाभ्यां चेति वक्तव्यम्' (वा २७२१) । गजता । सहायता । 'अह्नः खः क्रतौ' (वा २७२२ २७२३) । अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । 'क्रतौ' किम् । आह्नः । इह खण्डिकादित्वादञ्। 'अह्नष्टखोरेव' (सू ७८९) इति नियमाट्टिलोपो न । पर्श्वा णस् वक्तव्यः' (वा २७२४) ।
१२५२ । सिति च । (१-४-१६)
सिति परे पूर्व पदसंज्ञ स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ।
१२५३ । अनुदात्तादेरञ् । (४-२-४४)
कापोतम् । मायूरम् ।
पृष्ठानि तेषां समूहः इति विग्रहः । ग्रामजन ॥ समूह इत्येव । ग्रामतेत्यादि । ग्रामाणां जनानां बन्धूनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात् । “तलन्तं स्त्रियाम्' इति लिङ्गानुशासनसूत्राच्च । गजसहायाभ्याञ्चेति ॥ आभ्यामपि समूहे तलिति वक्तव्यमित्यर्थः। अह्नः खः क्रतौ इति । वार्तिकमिदम् । क्रतौ वर्तमानात् अहन्शब्दात् समूहेऽर्थे खप्रत्ययो वाच्य इत्यर्थः । अहीन इति । अहश्शब्देन सौत्यान्यहानि विवक्षितानि । तेषां समूहः इति विग्रहः । अहन्शब्दात् खः ईनादेशः । “ अह्नष्टखोरेव' इति टिलोप इति भावः । फलितमाह । अहर्गणेति ॥ आह्नः इति । अहां समूह इति विग्रहः । इह क्रत्वप्रतीतेर्न ख इति भावः । 'अचित्तहस्तिधेनोः' इति ठकमाशङ्क्य आह । इहेति ॥ 'खण्डिकादिभ्यश्च' इत्यञित्यर्थः । नन्वेवं सति 'अन्’ इति प्रकृतिभावस्याणि विहितस्यात्र सम्भवाट्टिलोपः स्यादित्यत आह । अह्नष्टखोरेवेतीति ॥ टिलोपाभावे सति 'अल्लोपोsनः' इत्यकारलोपे आह्नः इति रूपमिति भावः । पर्श्वा णसिति ॥ अणोऽपवादः । पर्शुशब्दः उकारान्त स्त्रीलिङ्गः पार्श्वगतास्थिवाची । तस्मात् णसि ओर्गुणे प्राप्ते । सिति च ॥ 'सुप्तिडन्तम्पदम्’ इत्यतः पदमित्यनुवर्तते । तदाह । सिति परे पूर्वंपदसंज्ञमिति । सकारः इत् यस्य सः सित् । 'स्वादिष्वसर्वनामस्थाने' इत्येव सिद्धे भसंज्ञापवादोऽयम् । अभत्वादिति ॥ पदत्वेनानेन भत्वस्य बाधादिति भावः । पर्शूनां समूहः पार्श्वमिति ॥ पर्शु अ इति स्थिते “इकोऽसवर्णे' इति शाकल्यह्रस्वप्रकृतिभावयोः 'सिति च' इति तत्रत्य वचनान्तरेण तन्निषेधे यणादेशे पार्श्वमिति रूपमिति भावः । अनुदात्तादेरञ् ॥ समूह इत्येव । कापोतम् । मायूरमिति ॥ 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति कपोतमयूरशब्दौ