सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

योगविभागो यथासङ्ख्यनिवृत्त्यर्थः । अपोनप्त्रीयम्-अपान्नप्त्रीयम् । पैङ्गाक्षिपुत्रीयम् । तारणबिन्दवीयम् । 'शतरुद्राद्धश्च' (वा २७०२) । चाच्छः। शतं रुद्राः देवता अस्य शतरुद्रियम्-शतरुद्रीयम् । घछयोर्विधानसामर्थ्यात् द्विगोर्लुगनपत्ये' (सू १०८०) इति न लुक् ।

१२३१ । महेन्द्राद्धाणौ च । (४-२-२९)

चाच्छः । महेन्द्रियम् हविः-माहेन्द्रम्-महेन्द्रीयम् ।

१२३२ । सोमाट्ट्यण् । (४-२-३०)

सौम्यम् । टित्वान्ङीप् सौमी ऋक्

१२३३ । वाय्वृतुपित्रुषसो यत । (४-२-३१)

वायव्यम् । एवम् ऋतव्यम् ।

१२३४ । रीङृतः । (७-४-२७)

अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् । ‘यस्येति च' (सू ३११) । पित्र्यम् । उषस्यम् ।


इति ॥ पैङ्गाक्षिपुत्रीयमिति ॥ पिङ्गाक्षिपुत्रो देवता अस्येति विग्रहः । तारणबिन्दवीय मिति ॥ तारणबिन्दुः देवता अस्येति विग्रहः । शतरुद्राद्धश्चेति ॥ वार्तिकमिदम् । शतरुद्रियमिति ॥ घस्य इयादेशः । शतरुद्रीयमिति ॥ छस्य ईयादेशः । उभयत्र तद्धितार्थ' इति द्विगुसमासः । ’द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्य आह । घच्छयो रिति ॥ महेन्द्राद्धाणौ च ॥ महेन्द्रियमिति ॥ महेन्द्रो देवता अस्येति विग्रहः । घस्य इयादेशः । माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति ॥ छस्य ईयादेशः । सोमाट्ट्यण्॥ सौम्यमिति ॥ सोमो देवता अस्येति विग्रहः । टित्वस्य प्रयोजनमाह । टित्वान्ङीबिति ॥ सौमीति ॥ सोमो देवता अस्या ऋच इति विग्रहः । डीपि हलस्तद्धितस्य' इति यलोपः । वाय्वृतुपित्रुषसो यत् ॥ वायु, ऋतु, पितृ, उषस्, एभ्यः यदित्यर्थः । वायव्यमिति ॥ वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः । ‘वान्तो यि' इत्यवादेशः । एवम् ऋतव्यमिति ॥ ऋतुः देवता अस्येति विग्रहः । रीङृतः ॥ अङ्गस्ये त्यधिकृतम् ऋता विशिष्यते । तदन्तविधिः । “ अयङ् यि क्डिति' इत्यतः यि इत्यनुवर्तते । अकृत्सार्वधातुकयोः' इत्यतः अकृत्सार्वधातुकयोरिति 'च्वौ च' इति सूत्रञ्च । तदाह अकृदित्यादिना ॥ पित्र्यमिति ॥ पितरः देवता अस्येति विग्रहः । यति पितृशब्दस्य रीड् । ‘डिञ्च' इत्यन्तादेशः । ‘यस्येति च' इति ईकारलोपः । क्यचि पित्रीयतीत्यादौ 'अङ्ग कावें कृते पुनर्नाङ्गकार्यम्'इति वचनात् ‘अकृत्सार्वधातुकयोः' इति दीर्घे अप्राप्ते ईकारोच्चारणम् ।