६२० । विभाषोपसर्गे । (२-३-५९)
पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीव्यति ।
६२१ । प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने । (२-३-६१)
देवतासम्प्रदानकेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविषो वाचका च्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य
६२२ । कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । २-३-६४)
इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणश्शेषत्वविवक्षाभावात् ' षष्टी शेषे ' इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम्, तत् ध्वनयन्नुदाहरति । (स्य दीव्यतीति । शतमक्षत्रकीडन क्रयविक्रयविषयकमूल्यविसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यनुवृतेः कर्मत्वप्रकार एव बोधः । अत एव 'द्वितीया ब्राह्मणे' इत्युत्तरसूत्रे **ग्रामस्य तदहस्सभायां दीव्येयुः' इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थमित्युक्त भाष्यकेैयटयेास्सङ्गच्छते इत्यन्यत्र विस्तरः । विभाषोपसर्गे । उपसर्गे सति व्यवहृपणार्थस्य दिवः कर्मणि षष्ठी वा स्या दित्यर्थः । प्रेष्यब्रुवोः ॥ देवतासम्प्रदानके इति । देवता सम्प्रदानं यस्य तस्मिन्नित्यर्थः। प्रेष्यब्रुवोरिति । ‘इष गतौ' दिवादिश्यन्नन्तः, उपसर्गवशात् प्रेरणे वर्तते । प्रष्यश्च ब्रूश्च तयोरिति विग्रहः । कर्मण इति ॥ ' अधीगर्थ’ इत्यतः कर्मणीत्यनुवृत्तं षष्ठया विपरिणम्यते इति भावः । हविषः इति ॥ हविश्शब्दः न स्वरूपपरः, किन्तु हविर्विशेषवाचकशब्दपर व्याख्यानात् । तथाच देवतासम्प्रदानक्रियावाचिनोः प्रेष्यब्रुवोः कर्मीभूतः । हविर्विशेषः तद्वाचकाच्छब्दात् षष्ठीति फलितम् । अत्रापि शेष इति नानुवर्तते, व्याख्यानात् । तथाच द्वितीयापवादोऽयम् । अग्नये छागस्येति ॥ मैत्रावरुणं प्रति अध्वर्युकर्तृकोऽयं सम्प्रैषः । हे मैत्रावरुण, अग्न्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः वपाख्यं मेदोरून तत् प्रेष्य । होतायक्षदग्निं छागस्य वपाया मेदसो जुषतां हविहाँतर्यज' इति प्रैषण प्रकाशत्यर्थः । अत्र यद्यपि ‘अग्नये छागस्य वपाया मेदसः प्रेष्य' इत्येव कल्पसूत्रषु दृश्यते, नतु हविष इत्यपि । तथापि तथाविधः प्रैषो भाष्योदाहरणात् क्वचिच्छाखायां ज्ञेयः । मेदश्शब्देन वस्त्रखण्डतुल्या मांसविशेष उच्यते । अनुबूहि वेति । अग्नये छागस्य हविषो वपाया मेदसोऽनुबृहीत्युदाहरणम् । हे मैत्रावरुण, अग्न्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः वपाख्यं मेदोरूप तत्पुरोऽनुवाक्यया प्रकाशयेत्यर्थः । प्रेष्यब्रुवोः किम्, अग्नये छागस्य हविर्वपां मेदो जुहुधि । हविषः किम् । अग्नये गोमयानि प्रेष्य । देवतासम्प्रदान किम् । माणवक्राय पुरोडाश प्रेष्य । 'हविषः प्रस्थि तत्वविशेषणे प्रतिषेधो वक्तव्यः’ इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य । प्रस्थित मिति अव्यक्तमित्यर्थः । कृत्वोऽर्थ ॥ कृत्वोऽर्थानामिति । कृत्वसुः प्रत्ययस्यार्थ एवार्थः