पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५२
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

कृत्वोऽर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरहो भोजनम् । 'शेषे' किम् । द्विरहन्यध्ययनम् ।

६२३ । कर्तृकर्मणोः कृति । (२-३-६५)

कृद्योगे कर्तरि कर्मणि च षष्टी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्ण: । 'गुणकर्मणि वेष्यते' (वा ५०४२) । नेता अश्वस्य स्रुघ्नस्य-स्रुघ्नं वा । 'कृति' किम् । तद्धिते मा भूत् । कृतपूर्वी कटम् ।


येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति । 'दिवस्तदर्थस्य' इत्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजन मिति । पञ्चवारं वस्तुतः अधिकरणीभूतं यदहः तत्सम्वन्धि भोजनमित्यर्थः । “सङ्खयायाः क्रियाभ्यावृतिगणने कृत्वसुच्’ इह षष्ठयाशेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययन मिति । 'द्वित्रिचतुर्भ्यस्सुच्' इति कृत्वोऽर्थे सुच् । अत्राधिकरणस्य विवक्षितत्वात्सप्तम्येव नतु षष्ठी । कर्तृकर्मणोः कृति ॥ कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः । फलितमाह । कृद्योग इति । तत्र कर्तर्युदाहरति । कृष्णस्य कृतिरिति । भावे स्त्रियां क्तिन् । कृष्णकर्तृका सृष्टिरित्यर्थः । कर्मण्युदाहरति । जगत इति । जगत्कर्मकसृष्टयनुकूलव्यापारवानित्यर्थः । गुणकर्मणीति । कृदन्तद्विकर्मकधातुयोगे अप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः । प्रधानकर्मणि तु नित्यैव षष्ठी। “ अकथितञ्च' इत्यत्र भाष्ये स्थितमेतत् । नेता अश्वस्येति ॥ अकथितश्च' इत्यत्र ‘ग्राममजान्नयति' इत्युदाहरणे अजा प्रधानं कर्म, ग्रामस्तु गुणकर्मेति प्रपञ्चितं प्राक् । तद्रीत्या अत्र अश्वः प्रधानकर्म, स्रुयवघ्नस्तु गुणकर्मेति ज्ञेयम् । स्यादेतत् । कृतीति व्यर्थम् । नच तिड्व्यावृत्त्यर्थ तदिति वाच्यम् । ओदनं पचतीत्यादौ “न लोक' इति लादेशयोगे षष्ठी निषेधादेव षष्ठयभावसिद्धेः । शतेन क्रीतः शत्योऽश्वः, इत्यादौ तु तद्धितयत्प्रत्ययाभिहितत्वादेव अश्वादेः षष्ठी न भविष्यति । नच देवदत्तं हिरुगित्यादौ हिरुगाद्यवयवबोध्यवर्जनादिक्रियां प्रति कर्मत्वादनेन षष्ठी शङ्कया । “न लोकाव्यय' इति तन्निषेधात् । शेषत्वविवक्षायान्तु षष्ठयत्र इष्यत एव । एवञ्च परिशेषात् कृद्योग एवेयं षष्ठी पर्यवस्यतीति किं कृद्रहणेनेति पृच्छति । कृति किमिति । उत्तरमाह । तद्धिते इति । तद्धितयोगे षष्ठीनिवृत्त्यर्थमिति यावत् । कृतपूर्वी कटमिति । कटः पूर्व कृतः अनेनेति लौकिकविग्रहः । तत्र पूर्वमिति क्रिया विशेषणम् । 'सुप्सुपा' इति समासः । अनेनेत्यनुवृत्तौ कृतपूर्वशब्दात् “पूर्वादिनिः' 'सपूर्वाच इति इनिप्रत्ययस्तद्धितः । तत्र करोतिक्रियापेक्षया कटस्य कर्मत्वादनेन षष्ठीप्राप्तौ तद्धितयो-


१. अत्र च “अथेह कथं भवितव्यम्-नेता अश्वस्य स्त्रुघ्नम्-इति, आहोस्वित्-नेता अश्वस्य सुघ्नस्य-इति । “उभयथा गोणिकापुत्रः' इति 'अकथित-' (१-४-५१) सूत्रभाष्यमूलिक प्रधाने नियता षष्ठी गुणकर्मणि वेष्यते' इति शिष्टोक्तिरेव मानम् ।