पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५०
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

निहननम्-प्रहणनं वा । नट अवस्कन्दने' चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषळस्य पेषणम् । हिंसायाम्' किम् । धानापेषणम् ।

६१८ । व्यवहृपणोः समर्थयोः । (२-३-५७)

शेषे कर्मणि षष्ठी स्यात् । यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं, पणनं वा । “समर्थयोः' किम् । शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं, स्तुतिरित्यर्थः ।

६१९ । दिवस्तदर्थस्य । (२-३-५८)

द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । 'तदर्थस्य ' किम् । ब्राह्मणं दीव्यति स्तौतीत्यर्थः ।


निहननं प्रहणनं वेति । निमित्ताभावानिहननमित्यत्र 'हन्तेरत्पूर्वस्य' इति णत्वं न । चुरादिरिति ।। ‘नट नृत्तौ' इति तु न गृह्यते । नाटेति दीर्घोच्चारणादिति भावः । चौरस्यो न्नाटनामिति । उपसर्गवशान्नाटेर्हिंसायां वृत्तिरिति भावः । चौरस्य क्राथनमिति । क्रथ हिंसायाम्' इति घटादौ । “घटादयो मित:’ इति तस्य मित्त्वेऽपि “मितां ह्रस्वः’ इति न । भवति । इह दीर्घनिपातनात् । वृषळस्य पेषणमिति ॥ हिंसत्यर्थः । व्यवहृपणोः ॥ शेषपूरणेन सूत्रं व्याचष्टे । शेषे कर्मणि षष्ठी स्थादिति ॥ समौ तुल्यौ अर्थौं ययोरिति विग्रहः । शकन्ध्वादिन्वात् पररूपम् । एकार्थकस्य व्यवपूर्वकहृञ्धातोः पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनिवृत्त्यर्थमेव । ननु ‘पण व्यवहारे स्तुतौ च' इति पणधातुः स्तुतावपि वर्तते, नतु व्यवहार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह । द्यूतेइति॥ द्यूते अक्षैः क्रीडने क्रयविक्रयविषयकमूल्यसंवादे चानयोः व्यवहृपणोः एकार्थ कत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृहातीत्यर्थः । केवलव्यवहारार्थकत्वे अकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसम्बन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषय कमूल्यविसंवादेन ग्रहणं वेत्यर्थः। समर्थयोः किमिति । व्यवहारार्थकयोरिति किमर्थमित्यर्थः शलाकाव्यवहार इति । प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह । गणनेत्यर्थः इति । वस्तुतः कर्मीभूितशलाकासम्बन्धिगणनेति फलितम् । अत्र षष्ठयाः पुनर्विध्यभावा दस्त्येव समास इति भावः । ब्राह्मणपणनमिति । पणतेः प्रत्युदाहरणम् । अत्र पणिर्न व्यवहारार्थ इत्याह । स्तुतिरित्यर्थः इति । वस्तुतः कर्मीभूतब्राह्मणसम्बन्धिनी स्तुति रित्यर्थः । अत्रापि अस्त्येव समास इति भावः । दिवस्तदर्थस्य । पूर्वसूत्रे निर्दिष्टव्यवह पणौ तच्छब्देन परामृश्यते । तयाः व्यवहृपणोः अर्थ एवार्थो यस्येति विग्रहः । तदाह । द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणं अर्थो यस्य दिव इति विग्रहः । क्रयेति । क्रय विक्रयविषयकमूल्यविसंवादोऽर्थः यस्य दिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष