सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४३९
बालमनोरमा ।

इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः । 'गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्' (वा ५०४१) । कस्मात्त्वम्, नद्याः ।यत्तश्चाध्व कालनिमानं तत्र पञ्चमी' (वा १४७७) । 'तद्युक्तादध्वनः प्रथमासप्त्यौ (वा १४७९) कालात्सप्तमा च वक्तव्या' (वा १४७८) । वनाद्वामो योजनं-योजने वा । कार्तिक्याः आग्रहायणी मासे ।

५९५ ॥ अन्यारादितरतेंदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते

एतैर्योगे पञ्चमी स्यात् । 'अन्य-इत्यर्थग्रहणम् । इतर ग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् ।


गम्यमानापीति ।। प्रकरणादिनेत्यर्थः । गम्यमानापीत्यस्य प्रयोजनान्तरमाह । कस्मा त्त्वमिति ।। आगतोडसीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः । नद्या इत्युत्तरम् । आगतोऽस्मीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः। यतश्चेति यत इति तृतीयार्थे तसिः । येनावधिना अध्वनः कालस्य वा निमानं परिच्छेदः इयत्ता गम्यते, ततः पञ्चमी वाच्येत्येकं वाक्यम् । तत्र पञ्चमीति पाठेऽप्ययमेवार्थः। तद्युक्तादिति ।। तेन पञ्चम्यन्तेन युक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये इति द्वितीयं वाक्यम् ।कालात्सप्तमी च वक्तव्या' इति वाक्यान्तरम्।तद्युक्तादित्यनुषज्यते । तेन पञ्चम्यन्तेन अन्वितात् कालवाचि नस्सप्तमी वक्तव्येत्यर्थः । वनादिति।। अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते । कस्मादारभ्य योजनमित्याकाङ्क्षोत्थानात् । योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः।वनात्मकपूर्वावधिकयोजनोत्तरदेशे ग्राम इत्यर्थः। अवधि त्वसत्त्वेऽपि विश्लेषाप्रतीतेर्ध्रुवमित्यपादानत्वाभावाद्वचनम् । कार्तिक्याः इति ॥ कार्तिक्याः मासे आग्रहायणीत्यन्वयः। अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परि च्छिद्यते । कस्मादारभ्य मास इत्याकाङ्क्षोत्थानात् । मास इति सप्तम्यातु स्वोत्तराव्यवहित कालवृत्तित्वमर्थः। कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्षपौर्णमासीत्यर्थः। अन्यारात् ॥ युक्त इति भावे क्त इत्याह । एभिर्योगे इति ॥ अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आच्, आहि, एतैरष्टभिर्योगे सतीत्यर्थः। भिन्नादिशब्दयोगे पञ्चमीं साधयितुमाह । अन्य इत्यर्थग्रहणमिति ॥ व्याख्यानादिति भावः। अन्यार्थकाब्दयोगे पञ्चमीति फलितम् । तर्हीतरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह । इतरग्रहणं प्रपञ्चार्थमिति ॥ “पचि विस्तार' अन्यशब्दस्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत् । अन्यो भिन्न इतरो वेति ॥ भेदवान् विलक्षण इत्याद्युप लक्षणमिदम् । कृष्णप्रतियोगिकभेदवानित्यर्थः। षष्ठयपवादोऽयम् । अन्यादिशब्दानामवधिनि यमसत्त्वेऽपि संयोगविश्लेषाभावादपादानत्वस्य न प्रसक्तिः । एवमग्रेऽपि आराद्वनादिति ॥


१. भाष्ये तु 'प्रश्राख्यानयोश्च' (वा १४७८) इति वार्तिकमेतदर्थे वर्तते