पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगे ऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववावियोगे तु न । ' परमाम्रेडि
तम्’ (सू ८३) इति निर्देशात् । पूर्व कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्द
त्वेऽपि *षष्ठयतसर्थ–’ (सू ६०९) इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक्-प्रत्यग्वा ग्रामात् ।आच् , दक्षिणा ग्रामात् । आहि, दक्षिणाहि
ग्रामात् । “ अपादाने पञ्चमी' (सू ५८७) इति सूत्रे * कार्तिक्याः प्रभृति
इति भाष्यप्रयोगात्प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति-आरभ्य वा सेव्यो
वनस्य दूरं समीपं वेत्यर्थः । “ आरादूरसमीपयोः' इत्यमरः । ऋते कृष्णादिति ॥ ऋते इत्यकारान्तमव्ययम् । “ऋते वर्जने' इत्यमरः । कृष्णस्य वर्जने सुखन्नास्तीत्यर्थः । “क्व कर्म प्रध्वंसः फलति पुरुषाराधनमृते ' इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः। “ततोऽन्यत्रापि दृश्यते’ इति वा द्वितीया । 'ऋते द्वितीया च' इति चान्द्रं सूत्रम् । अथ दिक्छब्दयोगे उदा हरति । पूर्वो ग्रामादिति ॥ ग्रामावधिकपूर्वदिग्वर्ती ग्राम इत्यर्थः । ननु चैत्रात् पूर्वः फाल्गुन इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाभावात् कथन्तद्योगे पञ्चमीत्यत आह । दिशि दृष्ट इति ॥ रूढ्या दिग्विशेषवाचकाः पूर्वादय एव गृह्यन्ते । नत्वैन्द्रीककुबादयः । सम्प्रतीति ॥ कदाचिद्दिग्वाचकानामिदानीं कालवाचकानामपि योगे पञ्चमी भवतीत्यर्थः । नन्वेवं सति पूर्वं कायस्येत्यत्रापि स्यादित्यत आह। अवयववाचीति ॥ तस्य परमिति ॥ तस्येति हि प्रकृतं द्विरुक्तं परामृशति । द्विरुक्तस्य परावयवं परभूतमाम्रेडितामिति तदर्थः । पूर्वे कायस्येति ॥ शरीरस्य पूर्वावयव इत्यर्थः । अञ्चुधातुः उत्तरपदं यस्य सः अञ्चूत्तरपदः प्रागादिदिक्छब्दः । नतु सध्रयङ् इत्यादिशब्दोऽपि । दिक्शब्दसाहचर्यात् । तेन सध्रयङ् देव दत्तेनेत्यत्र न पञ्चमी । ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यत आह । अ ञ्चूत्तरपदस्येति ॥ षष्ठयतसर्थेत्यनन्तरं परत्वात् प्राप्तमिति शेषः । प्राक् प्रत्यग्वा ग्रामा दितेि ॥ ग्रामावधिक इत्यर्थः। आजिति ॥ आच्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम्। दक्षिणा ग्रामादिति ॥ ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः । आहीति ॥ आहिप्रत्य यान्तयोगे उदाहरणसूचनमिदम् । दक्षिणाहि ग्रामादिति ॥ ग्रामावधिकायां दक्षिणस्यां दिशि दूर इत्यर्थः । “आहि च दूरे' इत्याहिप्रत्ययः । आजाहिप्रत्ययान्तयोर्दिक्शब्दत्वेऽपि षष्ठयतस्थै’ इति षष्ठीं बाधितुं पृथक् ग्रहणम् । नन्वेवमपि 'भवात्प्रभृत्यारभ्य वा सेव्यो हरिः इत्यादौ कथं पञ्चमी । अन्यादिशब्दयोगाभावादित्यत आह । अपादाने इति ॥ प्रभृति योगे इति ॥ प्रभृत्यर्थकशब्दयोगे इत्यर्थः । तथा हि । 'अपादाने पञ्चमी' इति सूत्रे भाष्ये यतश्चाध्वकालनिमानम्’ इति वार्तिकं पठित्वा कार्तिक्याः आग्रहायणी मासे इत्युदाहृत्य “इदं न वक्तव्यम्' इति तद्वार्तिकप्रत्याख्यानमुपक्षिप्य “इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते, कार्तिक्याः प्रभृत्याग्रहायणी मासे” इत्युक्तम् । प्रभृतिशब्दाभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः । एवं वदता भाष्यकृता प्रभृत्यर्थकशब्दयोगे पञ्चमीति वचनं ज्ञाप्यते । अन्यथा प्रभृतिपदाभावे पञ्च